वाचस्पत्यम्
भाववृत्त || पु० भावे वृत्तः प्रवृत्तः भावो वृत्तो जातो यस्माद्वा । सृष्टिकर्त्तरि बह्मणि “अनुष्टुप् च भवेच्छन्दो भाववृत्तस्तु दैवतम्” स्मृतिः ।
शब्दकल्पद्रुमः
भाववृत्तः || पुं, (भावः सत्ता वृत्तः प्रवृत्तोऽस्मा- दिति । यद्वा, भावः सृष्टिः तत्र वृत्तः प्रवृत्तः ।)
ब्रह्मा । इति सन्ध्याव्याख्यायां स्मृतिः ॥