शब्दकल्पद्रुमः
भाषापरिच्छेदः || पुं, विश्वनाथन्यायपञ्चाननकृत- न्यायपरिभाषाग्रन्थः । अस्य अयमाद्यश्लोकः । “नूतनजलधररुचये गोपवधूटीदुकूलचौराय । तस्मै नमः कृष्णाय संसारमहीरुहस्य बीजाय ॥” तस्यायमन्त्यश्लोकः । “सोऽयं क इति बुद्बिस्तु साजात्यमवलम्बते । तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ॥” अस्य टीका सिद्धान्तमुक्तावली ॥