संस्कृत-शब्दकोशः

भाषापरिच्छेद भाषासम

भाषापाद

वाचस्पत्यम्

भाषापाद ||‍ पु० कर्म० । चतुष्पादव्यवहारे प्रतिज्ञासूचके वाक्य- रूपे प्रथमेऽंशे पूर्वपक्षशब्दे ४४०६ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

भाषापादः || पुं, (भाषायाः पादः ।)
चतुष्पाद्ब्य- वहारान्तर्गतप्रथभपादः । तस्य लक्षणं यथा, —
“अर्थवद्धर्म्मसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धञ्च निश्चितं साधनक्षमम् । संक्षिप्तं निखिलार्थेञ्च देशकालाविरोधि च ॥ वर्षर्त्तुमासपक्षाहोवेलादेशप्रदेशवत् । स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥ साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनाम च । परात्मपूर्ब्बजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताहर्त्तृदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधोयते ॥” इति मिताक्षरायां व्यवहाराध्यायः ॥ अस्य विवरणं भाषाशब्दे द्रष्टव्यम् ॥



Correction: