संस्कृत-शब्दकोशः

भाषित भाष्यकार

भाष्य

वाचस्पत्यम्

भाष्य ||‍ न० “सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो जनाः” इत्युक्त लक्षणे १ सूत्रव्याख्याग्रन्थभेदे “फणिभाषितभाष्यफक्किका” भैष० । २ कथनीये त्रि० ।


शब्दकल्पद्रुमः

भाष्यं || क्ली (भाष्यते विवृततया वर्ण्यते इति । भाष + ण्यत् ।)
चूर्णिः । इति स्वामी ॥ सूत्र- विवरणग्रन्थः । तस्य लक्षणम् । “सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥” इति लिङ्गादिसंग्रहटीकायां भरतः ॥ सूत्रो- क्तार्थप्रपञ्चकम् । इति हेमचन्द्रः ॥ (भाष्यते अत्रेति । ण्यत् ।)
गृहविशेषः । इति माध- वीति मथुरेशः ॥ (भाष् + ण्यत् ।)
कथ- नीये त्रि ॥



Correction: