वाचस्पत्यम्
भाष्यकार || पु० भाष्यं करोति कृ—अण् उप० स० । पाणि- न्यादिसूत्रभाष्यकारके पतञ्जलिप्रभृतौ भाष्यकाराश्च सूत्रभेदे विभिन्ना यथा पाणिनिसूत्रस्य पतञ्जलिः ब्रह्म- सूत्रस्य शङ्कररासानुजादयः । योगसूत्रस्य वेदव्यासः, सां- ख्यसूत्रस्य विज्ञानभिक्षुः, गौतमसूत्रस्य वात्स्यायनः, क- णादसूत्रस्य प्रशस्तपादः । मीमांसासूत्रस्य शवरस्यामी इत्यादयः । “अहञ्च भाष्यकारश्च कुशाग्रीयधियावुभौ । नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः” दुर्गसिंहः नैव न ऐव गतवन्तावित्यर्थः । क्विप् ६ त० । भाष्यकृदप्यत्र ।
शब्दकल्पद्रुमः
भाष्यकारः || पुं, (भाष्यं चूर्णिं करोतीति । कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
महा- भाष्यकर्त्ता मुनिः । तत्पर्य्यायः । गोनर्द्दीयः २ पतञ्जलिः ३ चूर्णिकृत् ४ । इति त्रिकाण्डशेषः ॥ “अहञ्च भाष्यकारश्च कुशाग्रीयधियायुभौ । नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ॥” इति दुर्गसिंहः ॥