संस्कृत-शब्दकोशः

भाष्यकार भासद

भास

वाचस्पत्यम्

भास ||‍ दीप्तौ भ्वा० आत्म० सेक० सेट् । भासते अभासिष्ट । चङि वा ह्रस्वः । अबीभसत् त अनभासत् त । ज्ञानविषयत्वे च “प्रकारीभूय भावते” ।


वाचस्पत्यम्

भास ||‍ पु० भास—भावे घञ् । १ दीप्तौ विश्वः आधारे घञ् २ गोष्ठे । कर्त्तरि अच् । ३ कुक्कुरे ४ शुक्रे च ५ शकुन्ते गृध्रखगे हेमच० “यज्ञार्थमददत् वस्तु भासः काकोऽथवा भवेत्” स्मृतिः । ६ कविभेदे “भासो हामः कविकुलगुरुः कालिदासो विलासः” प्रसन्नरा० ।


वाचस्पत्यम्

भास ||‍ स्त्री भास—सम्प० भावे क्विप् । १ प्रभायाम् अमरः २ मयूखे मेदि० ३ इच्छायां धरणिः ।


शब्दकल्पद्रुमः

भास || ऋ ङ भासि । दीप्तौ । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।)
ऋ अवीभसत् अबभासत् । ङ भासते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

भासः || पुं, (भास्यते इति । भास + भावे घञ् ।)
दीप्तिः । (यथा, महाभारते । ८ । ५८ । ३१ । “चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः ।”)
(भासन्ते गावोऽत्र । भास + आधारे घञ् ।)
गोष्ठम् । (भासते दीप्यते इति । भास् + कर्त्तरि अच् ।)
कुक्कुटः । गृघ्रः । इति विश्वः । स्वनाम- ख्यातपक्षिविशेषः । तत्पर्य्यायः । शकुन्तः २ । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १३४ । ७० । “कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अभिज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥” पर्व्वतभेदः । यथा, महाभारते । १४ । ४३ । ४ ॥ “हिमवान् पारिपात्रश्च सह्यो बिन्ध्यस्त्रिकूट- वान् । श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्व्वतः ॥”)
(स्त्रियां ङीप् । प्राधायाः कन्या । यथा, महा- भारते । १ । ६५ । ४६ । “अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् । अनूपां सुभगां भासीमिति प्राधा व्यजायत ॥”)



Correction: