संस्कृत-शब्दकोशः

भासु भासुरपुष्पा

भासुर

वाचस्पत्यम्

भासुर ||‍ त्रि० भास—घुरच् । १ दीप्तिशीले २ स्फटिके च त्रिका० ३ वीरे पु० धरणिः ४ कुष्ठौषधे न० जटा० ।


शब्दकल्पद्रुमः

भासुरं || क्ली (भासते इति । भास् + “भञ्जभास- मिदो घुरच् ।” ३ । २ । १६१ । इति घुरच् ।)
कुष्ठौषधम् । इति जटाधरः ॥


शब्दकल्पद्रुमः

भासुरः || पुं, (भास + घुरच् ।)
स्फटिकः । इति त्रिकाण्डशेषः ॥ वीरः । इति धरणिः । कर्त्तरि घुरप्रत्ययनिष्पन्नत्वेन दीप्तियुक्ते, त्रि ॥ (यथा, किरातार्ज्जुनीये । ५ । ५ । “मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः ॥”)



Correction: