शब्दकल्पद्रुमः
भाः || [स्] पुं, (भासते इति । भासृ दीप्तौ + “भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।” ३ । २ । १७७ । इति क्विप् ।)
सूर्य्यः । इति त्रिकाण्डशेषः ॥ (स्त्री, दीप्तिः । इत्यमरः । १ । ४ । ३४ ॥ यथा, ऋग्वेदे । १ । ४६ । १० । “अभूदु भा उ अंशवे हिरण्यं प्रति सूर्य्यः ॥”)
शब्दकल्पद्रुमः
भास् || स्त्री (भासते इति । भास + “भ्राजभास- र्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।” ३ । २ । १७७ । इति क्विप् ।)
प्रभा । अस्य शब्दस्य प्रथमान्त- रूपं भाः । इत्यमरः । १ । ४ । ३४ ॥ मयूखः । इति मेदिनी । से, ७ ॥ इच्छा । इति धरणिः ॥