संस्कृत-शब्दकोशः

भास् भास्करद्युति

भास्कर

वाचस्पत्यम्

भास्कर ||‍ पु० भासं करोति भास् + कृ—टच् वरक० । १ सूर्य्ये २ अग्नौ मेदि० ३ वीरे धरणिः । ४ अर्कवृक्षे ५ सिद्धान्तशिरो- मणिग्रन्थकृत्पण्डिते । ६ स्वर्णे न० राजनि० । ७ महा- देवे पु० भा० आनु० ८ अ० । ८ भास्करेण कृते पक्वलवण- भेदे न० चक्रदत्तः । भास्करलवणशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

भास्करं || क्ली (भाः करोतीति । कृ + “दिवा- विभानिशाप्रभा भास्करान्तानन्तादीति ।” ३ । २ । २१ । इति टः ।)
सुवर्णम् । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

भास्करः || पुं, (भाः करोतीति । कृ + “दिवा- विभेति । ३ । २ । २१ । इति टः ।)
सूर्य्यः । (यथा, मनौ । २ । ४८ । “प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद्भैक्ष्यं यथाविधि ॥”)
अग्निः । इति मेदिनी । रे, १९१ ॥ वीरः । इति घरणिः ॥ अर्कवृक्षः । इति राजनिर्घण्टः ॥ भास्कराचार्य्यः । स च सिद्धान्तशिरोमण्यादि- ज्योतिर्ग्रन्थकर्त्ता ॥



Correction: