शब्दकल्पद्रुमः
भिक्षाचरः || पुं, स्त्री, (भिक्षां चरतीति । भिक्षा + चर + “भिक्षासेनादायेषु च ।” ३ । २ । १७ । इति टः ।)
भिक्षुकः । इति सिद्धान्तकोमुदी ॥ (स्वनामख्यातो भोजनरपतेः पुत्त्रः । यथा, राजतरङ्गिण्याम् । ८ । १७ । “राज्ञ्यां विभवमत्यां यं भोजो हर्षनृपात्मजः । जातं मृतद्वित्रिपुत्त्रानन्तरं गुरुभिः शिशुम् । आयुष्कामैस्तमाबद्ध्वाभव्यभिक्षाचराभिधम् ॥”)