संस्कृत-शब्दकोशः

भिक्षाचर भिक्षादि

भिक्षाटन

वाचस्पत्यम्

भिक्षाटन ||‍ न० भिक्षार्थमटनम् । भिक्षार्थे गमने तस्य सायं प्रातश्च निषेधो यथा “सायं प्रातर्गृहद्वारं भिक्षार्थं नावघट्टयेत्” कूर्मपु० १५ अ० ।


शब्दकल्पद्रुमः

भिक्षाटनं || क्ली (भिक्षार्थमटनं गमनम् ।)
भिक्षार्थगमनम् । यथा, —
“अर्द्धं दानववैरिणा गिरिजयाप्यर्द्धं हरस्याहृतं देवेत्थं जगतीतले स्मरहराभावः समुन्मीलति । गङ्गा वारिधिमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्व्वज्ञत्वमधीश्वरत्वमगमत् त्वां माञ्च भिक्षा- टनम् ॥” इत्युद्भटः ॥



Correction: