संस्कृत-शब्दकोशः

भित्त भित्तिका

भित्ति

वाचस्पत्यम्

भित्ति ||‍ स्त्री भिद—क्तिन १ गृहादेः कुड्ये (देयास) २ प्रभेदे शब्दरत्ना० । ३ अवकाशे ४ संविसागे विश्वः । स्वार्थे क । तत्रार्थे सज्ञायां कन् । पल्ल्यां हेमच० ।


शब्दकल्पद्रुमः

भित्तिः || स्त्री (भिद्यते इति । भिद् + क्तिन् ।)
गृहादेर्मृदिष्टकादिमयी वृतिः । काँथ इति भित् इति च ख्याता । तत्पर्य्यायः । कूड्यम् २ । इत्य- मरः । २ । २ । ४ ॥ भित्तिका ३ कुड्यम् ४ कुड्यकम् ५ । इति शब्दरत्नावली ॥ (यथा, विश्वकर्म्मप्रकाशे । पञ्चमाध्याये । “मानेनानेन विस्तारो भित्तीनान्तु विधीयते । पादे पञ्चगुणं कृत्वा भित्तीनामुच्छ्रयो भवेत् ॥”)
प्रभेदः । सम्बिभागः । अवकाशः । इति विश्वः । प्रदेशः । इति शब्दरत्नावली ॥ (यथा, रघौ । ५ । ४३ । “अथोपरिष्टाद् भ्रमरैर्भ्रमद्भिः प्राक् सूचितान्तःसलिलप्रवेशः । निर्धौतदानामलगण्डभित्तिः र्वन्यः सरित्तो गज उन्ममज्ज ॥”)



Correction: