वाचस्पत्यम्
भिन्नक || पु० भिन्नं कं यस्य । बौद्धे त्रिका० । तन्मत विश्वस्य क्षणभङ्गुरत्वेन स्थायिसुखराहित्यात्तस्य तथात्वम् ।
शब्दकल्पद्रुमः
भिन्नकः || पुं, (भिन्न + संज्ञायां कन् ।)
बौद्धः । यथा, “भिन्नकः क्षपणोऽर्ह्रीको बौद्धो वैनायिकः स्मृतः ॥” इति त्रिकाण्डशेषः ॥ (भिन्न + “अनत्यन्तगतौ क्तात् ।” ५ । ४ । ४ । इति कन् । ईषद् भिन्ने, त्रि ।)