वाचस्पत्यम्
भीत || न० भी—भावे कर्त्तरि वा क्त । १ भवे २ तद्युते त्रि० । ३ मन्त्रभेदे पु० “शिवो वा शक्तिरथ वा भीताख्यः स प्रकीर्त्तितः” तन्त्रसारः
शब्दकल्पद्रुमः
भीतं || क्ली (भी लि भीत्याम् + क्तः ।)
भयम् । भययुक्ते, त्रि । इति मेदिनी । ते, ४० ॥ (यथा, मनुः । ७ । ९४ । “यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः । भर्त्तुर्यद्दुष्कृतं किञ्चित् तत्सर्व्वं प्रतिपद्यते ॥”)