संस्कृत-शब्दकोशः

भीमहास भीमादि

भीमा

वाचस्पत्यम्

भीमा ||‍ स्त्री १ भीमाख्यायाम दुर्गायाम् २ रोचनाख्यगन्धद्रव्ये शब्दरत्ना० ३ कशायां शब्दमाला ४ नदीभेदे भा० व० २२३ अ०


शब्दकल्पद्रुमः

भीमा || स्त्री (भी + मक् + स्त्रियां टाप् ।)
दुर्गा । इति शब्दरत्नावली ॥ रोचनाख्यगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ कशा । इति शब्दमाला ॥ (नदीविशेषः । तद्यथा, —
“कावेरी वीरकान्ता च भीमा चैव पयोष्णिका । विभावरी विशाला च गौरीदा मदनस्वसा ॥ पार्व्वती चापरा नद्यो दक्षिणाद्रिगमा हिमाः ॥” इति हारीते प्रथमे स्थाने सप्तमेऽध्याये ॥)



Correction: