संस्कृत-शब्दकोशः

भीषा भीष्मक

भीष्म

वाचस्पत्यम्

भीष्म ||‍ न० भी—णिच्—सुक् अपादाने मक् । १ भयानकरसे अमरः । २ भयानके त्रि० ३ रुद्रे ४ राक्षसे पु० हेमच० ५ गङ्गागर्भजाते शान्तनुपुत्रभेदे पु० गङ्गाजशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

भीष्मं || त्रि (बिभेत्यस्मादिति । भी + “भियः षुग् वा ।” उणा० । १ । १४७ । इति मक् । वा षुगागमश्च ।)
भयानकम् । इत्यमरः । १ । ७ । २० ॥ (यथा, शतपथब्राह्मणे । ११ । ६ । १ । ३ । “सहोवाच भीष्मं वत भोः पुरुषान् वा ।” “भीष्मं भयङ्करं ।” इति तद्भाष्ये महीधरः ॥)


शब्दकल्पद्रुमः

भीष्मः || पुं, (बिभेत्यस्मादिति । भी + मक् । षुग् वेति पक्षे षुक् ।)
भयानकरसः । इत्यमर- टीकायां भरतः ॥ शिवः । राक्षसः । इति हेमचन्द्रः ॥ गाङ्गेयः । स च शान्तनुराज- चक्रवर्त्तिनो गङ्गायां भार्य्यायां जातः । स परम- धर्म्मात्मा महावीरः । येन पितुर्दासकन्या- विवाहार्थं पितृराज्यं त्यक्तं, यश्च स्वस्य विवाहं त्यक्त्वा ऊर्द्ध्वरेता जातः । इति श्रीभागवतम् ॥ तस्योत्पत्तिर्यथा, —
“अथ तामष्टमे जाते पुत्त्रे प्रहसतीमिव । उवाच राजा दुःखार्त्तः परीप्सन् सुतमात्मनः ॥ मा वधीः कासि कस्यासि किञ्च हंसि सुता- निति । पुत्त्रघ्नि ! सुमहत् पापं संप्राप्तं ते सुगर्हिते ! ॥” स्त्र्युवाच । “पुत्त्रकाम ! न ते हन्मि पुत्त्रं पुत्त्रवतांवर ! । जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥ अहं गङ्गा जह्नुसुता महर्षिगणसेविता । देवकार्य्यार्थसिद्ध्यर्थमुषिताहं त्वया सह ॥ अष्टौ ये वसवो देवा महाभागा महौजसः । वशिष्ठशापदोषेण मानुषत्वमुपागताः ॥ तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते । मद्विधा मानुषी धात्री लोके नास्ति कदाचन ॥ तेषाञ्च जननीहेतोर्मानुषत्वमुपागता । जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥ देवानां समयस्त्वेष वसूनां संश्रुतो मया । जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥ तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः । स्वस्ति तेऽस्तु गमिष्यामि पुत्त्रं पाहि महा- व्रतम् ॥ एष पर्य्यायवासो मे वसूनां सन्निधौ कृतः । मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥” इत्यादिपर्व्वणि भीष्मोत्पत्तिनाम १०० अध्यायः ॥



Correction: