वाचस्पत्यम्
भीष्मपञ्चक || न० भीष्मेण प्राप्तमुपदिष्टं वा पञ्चकम् । कार्त्तिक- शुक्लेकादश्यादिषु १ पञ्चसु तिथिषु तत्कर्त्तव्ये २ व्रतभेदे च । तन्निरुक्तिर्यथा “भीष्मेणैतत् पुरा प्राप्तं व्रतं पञ्च दिनात्मकम् । सकाशात् वासुदेवस्य तेनोक्तं भीष्मपञ्च- कम्” हेमा० व्र० नारदपु० । पञ्चात् तेन च पाण्डवायोप दिष्टं यथोक्तं तत्रैव “इदं भीष्मेण धर्म्यञ्च शरतल्पगतेन च । तदेवात्र समाख्यातं दुष्करं भीष्मपञ्चकम्” । तत्का- लश्च तथोक्तो यथा “कार्त्तिकस्य शुभे पक्षे स्यात्तु सम्यगयतव्रतः । एकादश्यान्तु गृह्णीयात् व्रतं पञ्च दिनात्मकम्” । तत्रैव तद्विधानं दृश्यम् ।
शब्दकल्पद्रुमः
भीष्मपञ्चकं || क्ली (भीष्मेण कृतमुपदिष्ठं वा पञ्चकं एकादश्यादिपूर्णिमान्तपञ्चतिथिकर्त्तव्यम् ।)
कार्त्तिकशुक्लपक्षीयैकादश्यादिपूर्णिमान्तपञ्च- तिथिकर्त्तव्यव्रतविशेषः । यथा, — श्रीनारद उवाच । “भगवन् ! यत् त्वया प्रोक्तं भीष्मस्य च दिनं महत् । माहात्म्यं श्रोतुमिच्छामि तस्य मे कथय प्रभो ! ॥ कथं स्नानञ्च किं दानं को विधिः कस्य पूजनम् । किं फलं केन वाकारि तन्मे कथय विस्तरात् ॥” ब्रह्मोवाच । तद्भीष्मपञ्चकस्येदं माहात्म्यं विधिपूर्ब्बकम् । वक्ष्यामि फलसंयुक्तं येनेदञ्च कृतं पुरा ॥ अयोध्या नगरी या च कलिकल्मषनाशिनी । वैष्णवी स्वर्गरम्या च कलिकल्मषनाशिनी ॥ हस्त्यश्वरथपत्त्याठ्या विष्णुचक्रप्रतिष्ठिता । तस्यामासीन्नरवरः सूर्य्यवंशोद्भवो मुने ! ॥ अतिथिर्नाम देवर्षे ! धर्म्मात्मा नैकयज्ञकृत् । तेन दत्तं पुरा राज्ञा कृतं यज्ञमनूत्तमम् ॥ भार्य्यया चन्द्रभाविन्या सार्द्ध्वं भीष्मस्य पञ्चकम् । चिकीर्षः परिपप्रच्छ वशिष्ठं तद्विधिं द्बिज ! ॥” वशिष्ठ उवाच । “शृणु राजन् ! प्रवक्ष्यामि व्रतं सौभाग्य- दायकम् । रहस्यं भीष्मपञ्चाख्यं विष्णुतुष्टिप्रदायकम् ॥ कार्त्तिके मासि राजेन्द्र ! प्रारभ्यैकादशीतिथिम् । यावत् पञ्चदशी रम्या भविता चन्द्रपूर्णिता । पञ्चभीष्ममिति ख्यातं तिथयः पुण्यदाः स्मृताः ॥ प्रातःकाले समुत्थाय शौचं कृत्वा यथाविधि । स्नात्वा सभार्य्यः पुरुषो नद्यादौ विमले जले ॥ तर्पयेद्भीद्मवर्म्माणं कुरुवंशपितामहम् । पितृभिस्तिलयुक्तैश्च जलाञ्जलिभिरुद्धृतैः ॥ वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय च । तिलतोयाञ्जलिं तस्मै प्रयच्छेद्भीष्मवर्म्मणे ॥ सन्तर्प्य कौरवश्रेष्ठं कुर्य्यादाचमनं ततः । अर्च्चयित्वा विधानेन चन्दनादिभिरावृतः । अर्घ्यं दद्याद्यतात्मा च मन्त्रेणानेन भूपते ! ॥ बसूनामवताराय शान्तनोरात्मजाय च । अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे ॥ इत्थं समापयेद्वतृस ! भीष्मपञ्चविधिं नरः । नियमेनोपवासेन पञ्चगव्येन वा पुनः ॥ पयोमूलफलाहारैर्हव्यैर्नानाविधैरपि । नरो वा यदि वा नारी मुक्तपापो दिवं व्रजेत् ॥ भुङ्क्ते स विपुलान् भोगान् कार्त्तिकं न त्यजेद्धि यः । अतोऽशक्तो नयेत् पञ्चभीष्माख्यं हरिपूर्णितम् ॥ श्रुत्वैतद्विष्णुभक्तोऽसौ भक्त्या त्वचलया सह । दम्पती च यथा भीष्मं लब्ध्वा तौ तु महाफलम् ॥ स्वल्पायासेन विप्रेन्द्र ! कृतं ताभ्यां हि तत् पुरा । प्राप्तं राज्यं महीमेतां समुद्रवलयान्विताम् ॥ प्रभुज्य प्रचुरान् कामान् व्रतकामौ यथा मुने ! । दिव्याम्बराभरणौ तौ दिव्यमाल्यानुलेपितौ ॥ दिव्यदेहविमानेन सर्व्वकिन्नरसेवितौ । अप्सरोगीतनृत्येन स्तुतौ देवमहर्षिभिः । सम्प्राप्तौ विष्णुलोकञ्च भीष्मपञ्चव्रतान्मुने ! ॥” ब्रह्मोवाच । “इत्येतत् कथितं वत्स ! माहात्म्यं कात्तिको- द्भवम् । भीष्मपञ्चकमाहात्म्यं सेतिहासं पुरातनम् ॥ तत् सर्व्वं कुरु विप्रेन्द्र ! यदि ते भक्तिरच्युते । निश्चलः कायमनसा वचसा सुमनीभव ॥” “शृण्वन्ति मर्त्याश्च पठन्ति ये वै भूखण्डमध्ये भगवद्गुणान् मुने ! । मतिञ्च लब्ध्वा भगवत्यशेषतः कथामुपेन्द्रस्य पुरं प्रयान्ति ॥” कलिमलमपहृत्य प्राणिनो देवदेवं सुभगसकलभोगान् भोजयित्वा च यान्ति । हरिपुरममरेशैर्गीतवाद्यैर्विशालै- र्विहितसकलकृत्यास्तोषयन्ते हरिं ये ॥ एतत् कार्त्तिकमाहात्म्यं भक्त्या यः शृणुयान्नरः । सर्व्वपापविनिर्म्मुक्तः स कृष्णे लभते रतिम् ॥” इति पाद्मोत्तरखण्डे कार्त्तिकमहात्म्ये १३२ अध्यायः ॥ अपि च । “सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने । चातुर्म्मास्ये ततस्तस्मात् कार्त्तिके भीष्मपञ्चकम् ॥ ततः श्रेष्ठतमं शुक्ल एकादश्यां समाचरेत् । स्नायात्त्रिकालं पित्रादीन् यवाद्यैरर्च्चयेद्धरिम् ॥ यजेन्मौनी घृताद्यैस्तु पञ्चगव्येन वारिभिः । स्नापयित्वाथ कर्पू रमुखैश्चैवानुलेपयेत् ॥ घृताक्तगुग्गुलोर्धूपं द्विजः पञ्चदिनं दहेत् । नैवेद्यं परमान्नन्तु जपेदष्टोत्तरं शतम् ॥ ॐ नमो वासुदेवाय घृतव्रीहितिलोदकम् । षडक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत् ॥ प्रथमेऽह्नि हरेः पादौ यजेत् पद्मैर्द्वितीयके । विल्वपत्रैर्जानुदेशं नाभिं भृङ्गेण चापरे ॥ स्कन्धौ विल्वैर्जवाभिश्च पञ्चमेऽह्नि शिरोऽर्च्चयेत् । मालत्या भूमिशायी स्याद्गोमयं प्राशयेत् क्रमात् ॥ गोमूत्रक्षीरदधि च पञ्चमे पञ्चगव्यकम् । नक्तं कुर्य्यात् पञ्चदश्यां व्रती स्याद्भुक्तिमुक्ति- भाक् ॥” इति गारुडे भीष्मपञ्चादिव्रतं नाम १२३ अध्यायः ॥ वकपञ्चकम् । यथा, —
“आरभ्यैकादशीं पञ्च दिनानि व्रतमाचरेत् । भगवत् प्रीतये भीष्मषञ्चकं यदि शक्रुयात् ॥ तथा धात्रीव्रतं पौर्णमास्यां कुर्व्वीत कार्त्तिके । तथा नवम्वां शुक्लायामक्षयं नवमीव्रतम् ॥ पैतामहादिकृच्छ्राणि मासोपोषणमेव च । समर्थः कार्त्तिके कुर्य्यात् ज्ञात्वा पाद्मादितो विधिम् ॥” इदि श्रीहरिभक्तिविलासे १६ विलासः ॥