वाचस्पत्यम्
भुग्न || त्रि० भुज—मोटने क्त । रोगादिना कुटिलीकृते ।
शब्दकल्पद्रुमः
भुग्नः || त्रि (भुज मोटने + क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।)
रोगा- दिना कुटिलीकृतः । तत्पर्य्यायः । रुग्नः २ । इत्यमरः । ३ । १ । ९१ ॥ वक्रः । इति भुज- धात्वर्थदर्शनात् । (यथा, —
“साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी । अक्षिणी पिण्डिकापार्श्वमूर्द्ध्वपर्व्वास्थिरुग्भ्रमः ॥” इति वाभटे निदानस्थाने द्वितीयेऽध्याये ॥ यथा, च भट्टिः । ११ । ८ । “पीने भटस्योरसि वीक्ष्य भुग्नां स्तनुत्वचः पाणिरुहान् सुभध्या ॥”)