वाचस्पत्यम्
भू || प्राप्तौ चु० आ० सक० सेट् । भावयत अबीभवत ।
वाचस्पत्यम्
भू || प्राप्तौ भ्वा० उ० सक० सेट् । भवति—ते अभूत् अभविष्ट ।
वाचस्पत्यम्
भू || शुद्धौ अक० चिन्तने मिश्रणे च सक० चुरा० उभ० सेट् । भावयति—ते अबीभवत्—त ।
वाचस्पत्यम्
भू || सत्तायां भ्वा० पर० अक० सेट् । भवति अभूत् बभूव । “भवते दुरितक्षयं यथोक्तैः क्रतुभिर्भावयते च नागलोकम् । भवति त्रिदशैश्च पूजितो यस्तृणवद्भावयति द्विषश्च सर्वान्” कविर० अधि—आधिक्येन भवने ऐश्वर्य्ये । अनु—अनुभवे ज्ञानभेदे सक० अनुभवशब्दे दृश्यम् । अन्तर् + तिरोभावे अक० । अभि + तिरस्कारे सक० । अभिभवति शत्रून् । आविस् + प्रादुस् + प्रथमप्रकाशे । उद्—उत्पत्तौ अक० । तिरस् अन्तर्धाने स्थितस्य वस्तुनः कारणात्मनाऽवस्थाने अक० परा + असहने पराभवः । परि + तिरस्कारे परिभवति अतिक्रम्य भवने । प्रत + तुल्यरूपभवने अक० प्रतिभूः । वि + व्याप्तौ विभुः । वि + अति—परस्परभवने आत्म० सक० व्यभिभवतेऽर्कमिन्दुः । बोपदेवः सम् + योग्यत्वे अक० । सम्भाति सम् + भू—णिच् सम्भावना- रूपज्ञानविषयत्वे सम्भाव्यते ।
वाचस्पत्यम्
भू || स्त्री भू—आधारे कर्त्तरि अपादाने वा यथायथम् क्विप् । १ भूमौ अमरः २ स्थानमात्रे मेदि० ३ यज्ञाग्नौ पु० जटा० ४ उत्पद्यमान त्रि० ५ परमेश्वरे पु० “अनिर्विण्णः स्थविष्ठो भूः” विष्णु स० ।
शब्दकल्पद्रुमः
भू || क ङ प्राप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् ।)
क ङ, भावयते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भू || क शुद्धिचिन्तयोः । मिश्रणे । इति कविकल्प- द्रुमः । (चुरा०-पर०-सक०-सेट् ।)
क, तृण- वद्भावयति द्विषः सर्व्वान् । त्रयोऽर्थाः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भू || ञ प्राप्तौ । इति कविकल्पद्रुमः । (भ्वा०-उभ०- सक०-सेट् ।)
ञ, भवति भवते धनं धीरः । भवत्येव सत्तायां प्राप्तिसम्पन्नजन्मस्विति भट्ट- मल्लः । भवते दुरितक्षयं यथोक्तक्रतुभिर्भावयते च नाकलोकमिति हलायुधः । केचिदमुं भ्वाद्यात्मनेपदिनं मत्वा प्राप्तौ परस्मैपदं सत्तार्थ- स्यैवानेकार्थत्वात् समाधत्ते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भू || व्य, (भू + क्विप् ।)
रसातलम् । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
भू || सत्तायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।)
सत्तेह द्विविधा । उत्पत्ति- र्विद्यमानता च । भवति मनुष्योऽथवा विष्णुः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भूः || स्त्री (भवत्यस्मिन्निति । भू + अधिकरणे क्विप् ।)
पृथिवी । इत्यमरः । २ । १ । २ ॥ (यथा, मनुः । ७ । ६ । “न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षि- तुम् ॥” यथा च वैद्यकरत्नमालायामस्याः पर्य्यायः । “भूर्भूमिः पृथिवी पृथ्वी मेदिनी वसुधावनिः । क्षितिरुर्व्वी मही क्षौणी क्ष्मा धरा कुर्वसु- न्धरा ॥”)
स्थानमात्रम् । इति मेदिनी । भे, १ ॥ (यथा, भागवते । ६ । ४ । ३१ । “यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति ॥” यज्ञाग्निः । इति जटाधरः ॥