संस्कृत-शब्दकोशः

भूतकला भूतकेशी

भूतकेश

वाचस्पत्यम्

भूतकेश ||‍ पु० भूतानां केश इव । (भूतकेश) नामके १ तृणभेदे स्त्रीत्वमपि ङीष् । सा च तत्र, २ शेफालिकार्या च टाप् । ३ नीलसिन्धुवारे स्त्री ङीष् ।


शब्दकल्पद्रुमः

भूतकेशः || पुं, (भूतस्य केश इव ।)
स्वनामख्यात- तृणम् । तत्पर्य्यायः । गोलोमी २ । इत्य- मरः । २ । १० । १११ ॥ भूतकेशी ३ अल्प- केशी ४ केशी ५ । इति रत्नमाला ॥ भूतानां केश इव भूतकेशः क्लीवञ्चेति केचित् । स्त्री चेत्यन्ये । अथ द्वयोर्भूतकेशो गोलोमी भूत- केशिकेति वाचस्पतिः । इति भरतः ॥



Correction: