वाचस्पत्यम्
भूतभावन || पु० भूतानि पृथिव्यादीनि मावयति जनयति भू—णिष्—ल्यु, भूता सत्या यथार्था भावना यस्त वा । १ विष्णौ, २ वटुकभैरवे च “भूतात्मा भूतभावनः” इति । तयोः स्तोत्रे ।
शब्दकल्पद्रुमः
भूतभावनः || पुं, (भूतानि क्षित्यादीनि भावयति जनयतीति । भ + णिच + ल्यः ।)
विष्णुः ॥ (यथा, महाभारते । १३ । १४९ । १४ । “भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥” महादेवः । यथा, महाभारते । १३ । १७ । ३३ । “अभिवाद्यो महाकर्म्मा तपस्वी भूतभावनः ॥”)
वटुकभैरवः । इति विश्वसारतन्त्रोक्तं तस्याष्टो- त्तरशतनामान्तर्गतनाम ॥ (भूतानि भावयति पालयतीति । भूतपालके, त्रि । इति श्रीधर- स्वामी ॥ यथा गीतायाम् । ९ । ५ । “भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥”)