शब्दकल्पद्रुमः
भूतभृत् || पुं, (भूतानि बिभर्त्तीति । भृ + क्विप् । तुगा- गमश्च)
विष्णुः । यथा, महाभारते । १३ । १४९ । १४ । भूतकृत् भूतभृद्भावो भूतात्मा भूतभावनः । इति तस्य सहस्रनामस्तोत्रम् ॥ (भूतधारके, त्रि । यथा, गीतायाम् । ९ । ५ । “भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥”)