वाचस्पत्यम्
भूतमण्डल || न० ६ त० । शा० ति० उक्ते पृथिव्यादीनां मण्डल- भेदे तत्स्वरूपं तत्रोक्तं यथा “वृत्तं दिवस्तत् षड्विन्दु- लाञ्छितं भातरिश्वनः । त्रिलोणं स्वस्तिकोपेतं वह्ने- रर्द्धेन्दुसंयुतम् । अम्भोभमम्भसो भूमेश्चतुरस्यं सवज्र- कम् । तत्तद्भूतकमानानि मण्डमानि विदुर्बुधाः । वर्णेः खैरञ्जितान्याहुः स्वस्यनामावृतान्यपि” । “वर्णैः श्वेतादिभि- र्भूतवर्णैरजोभिरञ्जितानीति पदार्थादर्शः । तत्रैतद्व्याख्या विस्तरेण दृश्या । मन्त्रमहोदधौ तेषां स्पष्टं स्वरूपं कर्मविशेषे विनियोगश्चोक्तो यथा “अर्द्धचन्द्रनिभं पार्श्वद्वये पद्मद्वयाङ्कितम् । जलस्य मण्डलं प्रोक्तं प्रशस्तं शान्ति कर्मणि । त्रिकोणं स्वस्तिकोपेतं वश्ये वह्नेस्तु मण्ड- लम् । चतुरस्रं वज्रयुक्तं स्तम्भे भूमेस्तु मण्डलम् । वृत्तं दिवस्तु विद्वेषे विन्दु षट्काङ्कितं तु तत् । वायु- मण्डलमुच्चाटे मारणे वह्निमण्डलम्” ।