संस्कृत-शब्दकोशः

भूतमारी भूतयोनि

भूतयज्ञ

वाचस्पत्यम्

भूतयज्ञ ||‍ पु० भूतानि प्राणिनो वायसादीन् उद्दिश्य यज्ञो वलिः । नित्यं गृहस्थकर्त्तव्यपञ्चयज्ञान्तर्गते बलिवैश्वदेव कर्मणि “भूतेभ्यो बलिहरणं भूतयज्ञः” हारीत स्मृतिः ।


शब्दकल्पद्रुमः

भूतयज्ञः || पुं, (भूतार्थो यज्ञः । भूतानि काकादि- प्राणिजातानि तान्युद्दिश्य यो यज्ञ इति वा नित्यं गार्हस्थ्यकरणीय पञ्चयज्ञेषु यज्ञभेदः ।)
भूतबलिः । ते तु पञ्चमहायज्ञान्तर्गतबलिवैश्व- देवकर्म्मणी । यथा, भूतेभ्यो बलिहरणं भूत- यज्ञः । इति हारीतसूत्रम् ॥ अस्यानुष्ठानं बलिशब्दे द्रष्टव्यम् । (यथा, मनुः । ४ । २१ । “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्व्वदा । नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत् ॥”)



Correction: