वाचस्पत्यम्
भूमिका || स्त्री भूमिरिव कायति कै—क । १ रचनायां “अन्य- रूपैर्यदन्यस्य प्रवेशस्तत्र भूमिका” इत्युक्ते नान्ये अभिनेय- पात्रादिवेशान्तरसूचके २ ग्रन्थे ३ वक्तव्यकथोद्वाते ४ कक्षा- याञ्च “नैयायिकादिभिरात्मा प्रथमभूमिकायामयतारितः” इति सांख्यप्रवचनभाष्यम् ।
शब्दकल्पद्रुमः
भूमिका || स्त्री (भूमिरिव कायतीति । कै + कः । स्त्रियां टाप् । यद्वा । भूमिरेव स्वार्थे कन् । टाप् ।)
रचना । वेशान्तरपरिग्नहः । इति मेदिनी ॥ पात्राणि नाट्येऽधिकृतास्तत्तद्वेशास्तु भूमिकाः । इति हेमचन्द्रः ॥ भूमिः । भूमिरेव भूमिका स्वार्थे कप्रत्ययेन निष्पन्ना । इति व्याकरणम् ॥ वेदान्तमते चित्त- स्यावस्थाविशेषः । यथा । क्षिप्तं मूढं विक्षिप्तं एकाग्रं निरुद्धं इति पञ्चभूमयः । आसुरसम्प- ल्लोकशास्त्रदेहवासनासु वर्त्तमानं चित्तं क्षिप्त- भूमिका । १ । निद्रातन्द्रादिग्रस्तं चित्तं मूढ- भूमिका । २ । कदाचिद्ध्यानयुक्तं चित्तं क्षिप्ता- द्विशिष्टतया विक्षिप्तभूमिका । ३ । तत्र क्षिप्त- मूढयोः समाधित्वशङ्कैव नास्ति विक्षिप्ते तु समाधित्वशङ्का तदितरत् भूमिद्बयं समाधिः । एकाग्रे मनसि सम्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान् कर्म्मबन्धनानि श्लथयति निरोधममि- मुखीकरोतीति सः प्रज्ञातो योग एकाग्र- भूमिका । ४ । सर्व्ववृत्तिनिरोधरूपा संप्रज्ञात- समाधिर्निरुद्धभूमिका । ५ । इति वेदान्तसंज्ञा- निरूपणग्रन्थः ॥