वाचस्पत्यम्
भूलिङ्गशकुनि || पु० भूलिङ्गः शकुनिः कर्म० । बिलशायिनि पक्षिभेदे “प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा” भा० स० ४१ अ० । तद्विवृतिर्यथा “अथ चैषा न ते बुद्धिः प्रकृतिं याति मारत! । गयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा । भूलिङ्गशकुनि- र्नाम पार्श्वे हिमवतः परे । भीष्म! तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः । मा साहसमितीदं सा सततं वाशते किल । साहसं चात्मनातीव चरन्ती नावबुध्यते । साहि मांसार्गलं भीष्म! मुखात् सिंहस्य खादतः । दन्तान्तरविलग्नं यत्तदादत्तेऽनल्पचेतना । इच्छतः सा हि सिंहस्य भीष्म! जीवत्यसंशयम् । तद्वत्त्वमप्य धर्मिष्ठ! सदा वाचः प्रभाषसे भा० स० ४४ अ० । “भूलिङ्ग शकुनिर्यथान्यद्वदत्यन्यत् करोति तद्वत्ते शुद्धं कामयन्ते शबलं वदन्तीत्यर्थः भुवं लिङ्गतीति भूलिङ्गो बिलशायी पक्षिविशेषः एषेति पाठे एषा अस्मदीया बुद्धिस्ते त्वदीया त्वद्वत्ते इति योज्यं तदा स्वसैव शकुन्युप्रमत्वम् अर्थविगर्हिताः उक्तिविपरीतक्रियया अर्थोविगर्हितो यासां ताः । वाशते शब्दं करोति । मांसार्गलं दंष्ट्रा- न्तरलग्नस्य मांसस्य वहिर्निर्गतभागमुल्लोलम् इच्छति इति । सा हि पक्षिणी मृत्युमुखे प्रविष्टापि तदुपेक्षया जीवन्ती यथा लोकानुपदिशति मा साहसभिति तथा त्वमुपदेशकारित्वात् मृत्युमुखे पतितोऽपि मृत्युना उपेक्षितो जीवस्यस्मांश्चोपदिशसि मृत्युमुखे न पतितव्य- मिति” नील० ।