संस्कृत-शब्दकोशः

भूलिङ्गशकुनि भूवलय

भूवदरी

शब्दकल्पद्रुमः

भूवदरी || स्त्री (भूलग्ना वदरी शाकपार्थिवादिवत् समासः ।)
क्षुद्रकोली । झडवेर इति हिन्दी- भाषा । तत्पर्य्यायः । क्षितिवदरी २ वल्लीवदरी ३ वदरवल्ली ४ बहुफलिका ५ लघुवदरी ६ वदरफली ७ सूक्ष्मवदरी ८ । अस्या गुणाः । मधुराम्लत्वम् । कफवातविकारहारित्वम् । पथ्यत्वम् । दीपनत्वम् । पाचनत्वम् । किञ्चित् पित्तास्रकारित्वम् । रुच्यत्वञ्च । इति राज- निर्घण्टः ॥



Correction: