संस्कृत-शब्दकोशः

भूषित भूसंस्कार

भूष्णु

वाचस्पत्यम्

भूष्णु ||‍ त्रि० भू—ग्ष्णु । भवनशीले ।


शब्दकल्पद्रुमः

भूष्णुः || त्रि (भू + ग्स्नु ।)
भवनशीलः । तत्- पर्य्यायः । भविष्णुः २ भविता ३ । इत्यमरः । ३ । १ । २९ ॥ साधुभवनशीलः । इति तट्टीकायां रायमुकुटः ॥ (यथा, मनौ । ४ । १३५ । “क्षत्रियं चैव सर्पं च ब्राह्मणञ्च बहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदाचन ॥” “भूष्णुः, धनायुरादिना वर्द्धनशीलः ।” इति तट्टीकायां कुल्लूकभट्टः ॥)



Correction: