संस्कृत-शब्दकोशः

भूष्णु भूसुत

भूसंस्कार

वाचस्पत्यम्

भूसंस्कार ||‍ पु० ६ त० । यज्ञादौ भूमिभागस्य परिसमूह नोपलेपन रेखाकरणपांशूद्धरणजलकरणकाभ्युक्षणरूपेषु पञ्चसु संस्कारेषु तत्प्रकारश्च कात्या० श्रौ० २ । १ । २४ सूत्रपद्धतौ दर्शितो यथा “तत्र पूर्वमाहवनीयस्वरे पञ्च भूसंस्कारा कर्त्तव्याः तद्यथा दर्मैः खरं प्राक्संस्थमुदक्संस्थं वा त्रिः परिसमूह्य १ गोमयेन त्रिरुपलिप्य २ स्फेन प्रागा- यता उदक्संस्था उदगायताः प्राक्संस्था वा तिस्रो लेखाः स्वरप्रमाणाः कृत्वा ३ अनासिकाङ्गुष्ठेन ताभ्यो रे- खाभ्यः पांशूनुद्धृत्य ४ अद्भिस्त्रिरभ्युक्षेत्” ५ । परिसमूहनं (तृणानामपलुम्पनम्) कात्या० श्रौ० ४ । १२ । १० कर्कः ।



Correction: