संस्कृत-शब्दकोशः

भृकुंसक भृगुक

भृगु

वाचस्पत्यम्

भृगु ||‍ पु० । भृज्जति क्विप् भृक् ज्वाला तया सहोत्पन्नः । १ ब्रह्मणः पुत्रे ऋषिभेदे “भृगित्येव भृगुः पूर्वमङ्गारेभ्यो- ऽङ्गिराऽभवत् । अङ्गारसंश्रयाश्चैव कविरित्यपरोऽभवेत् । सह ज्वालाभिरुत्पन्नो भृगुस्तस्मात् भृगुः स्मृतः” भा० अनु० ८५ अ० । “भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्व- सुदधेः पुनः । तथा धाता विधाता च तस्यां जातौ भृगोः सुतौ । आयतिर्नियतिश्चैव मेरुकन्ये महा- प्रभो! । धातुर्विधातुस्ते भार्य्ये ययोर्जातो सुतावुभौ । प्राणश्चैव मृकण्डुश्च मार्कण्डेयी मृकुण्डतः । ततो वेद शिरा जज्ञे प्राणस्य द्युतिमान् सुतः । ततो वंशो मुनि- श्रेष्ठा! विस्तरं भार्गवो गतः” वह्निपु० । २ महादेवे ३ शुक्र- ग्रहे मेदि० । ४ गिरिसानौ ५ जमदग्नौ हेम० । ६ निरव- लम्बने पर्वताद्युच्चस्थाने यतः पातेऽवलम्बनं न भवति तस्मिन् अतटस्थाने अमरः । भृगोर्गोत्रापत्यानि अण् बहुषु तस्य लुक् । ८ भृगोरपत्येषु ब० व० । ९ वरुणापत्ये ऋषिभेदे “भृगुर्वै वारुणिर्वरुणं पितरमुपससाद” तैत्ति० उ० ।


शब्दकल्पद्रुमः

भृगुः || पुं, (तपसा भृज्ज्यते पञ्चतपादिभिर्वेति । भ्रस्ज + “प्रथिम्रादिभ्रस्जां सम्प्रसारणं सलो- पश्च ।” उणा० १ । २९ । इति कुः सम्प्रसारणं सलोपः, न्यङ्कादित्वात् कुत्वञ्च । यद्वा भृज्जतीति क्विप् । भृक् ज्वाला तया सहोत्पन्न इति उः ।)
मुनिविशेषः । स तु ब्रह्मणस्त्वचो जातः । (यथास्योत्पत्तिर्नामनिरुक्तिश्च महाभारते । १३ । ८५ । १०५ — १०६ । “पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः । भृगित्येव भृगुः पूर्ब्बमङ्गरेभ्योऽङ्गिराभवत् ॥ अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् । सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद् भृगुः स्मृतः ॥”)
अस्य भार्य्या कर्द्दममुनिकन्या ख्यातिः । पुत्त्रः धाता विधाता च । कन्या श्रीः । इति श्रीभाग- वतम् ॥ अपि च । मुनय ऊचुः । “कथितस्ते यदा सर्गः पृष्टः सूत त्वयाधुना । भृगुसर्गात् प्रभृत्येष सर्गो नः कथ्यतां पुनः ॥” सूत उवाच । भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्ब्बमुदधेः पुनः । तथा धाता विधाता च तस्यां जातौ भृगोः सुतौ ॥ आयतिर्नियतिश्चैव मेरुकन्ये महाप्रभोः । घातुर्विधातुस्ते भार्य्ये ययोर्जातौ सुतावुभौ ॥ प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । ततो वेदशिरा जज्ञे प्राणस्य द्युतिमान् मुतः ॥ ततो वंशो मुनिश्रेष्ठा विस्तरं भार्गवो गतः । इत्याद्ये वह्निपुराणे वरसर्गनामाध्यायः ॥ * ॥
शिवः । शुक्रग्रहः । इति मेदिनी । गे, १५ ॥ सानुः । यमदग्निः । इति हेमचन्द्रः ॥ अरण्य- कण्टकव्याप्तगिरिपार्श्वोच्चदेशः । निरवलम्बन- पर्व्वतादिपार्श्वः । आरडि इति ख्यातम् । यस्मात् पतने अक्स्थानक्रियाविशेषो नास्ति । अतएव भृगुपतनमित्यादिप्रयोगो दृश्यते । इति भरतः ॥ तत्पर्य्यायः । प्रपातः २ अतटः ३ । इत्यमरः । २ । ३ । ४ ॥ दरद् ४ । इति जटाधरः ॥ पतनस्थानम् ५ । इति शब्दरत्नावली ॥



Correction: