वाचस्पत्यम्
भृङ्गार || पु० बभर्त्ति जलं भृ—आरक् नि० । १ स्वर्णमयजलपात्र- भेदे अमरः २ जलपात्रभेदे च (झारी) । भृङ्ग इव ऋ- च्छति ऋ—अच् । ३ भृङ्गराजे जटा० । ४ लवङ्गे ५ सुवर्णे च न० राजनि० । ६ झिल्लीनामकीटे स्त्री अमरः गौरा० ङीष् । स्वार्थे क । भृङ्गारिका तत्रैव । तत्र भृङ्गार पात्ररचनादिकं युक्तिकल्पतरावुक्तं यथा “राज्ञोऽभिषेकपात्रं यद् भृङ्गार इति तन्मतम् । तदष्टधा तस्य मानं प्रकृतिश्चापि चाष्टधा । सौवर्णं राजतं भौमं ताम्रं स्फाटिक्रमेब च । चान्दनं लौहजं शार्ङ्गमेत- दष्टविधं मतम् । भानु १२ दिङ् १० नवसप्ताष्टरुद्र ११ लोक- ३ सुरोन्मिताः ३३ । अष्टावष्टौ समाख्याता आयामपरि- णाहयोः । द्विचतुर्वाण ५ वेदाब्धि ४ वाण ४ सप्ताष्टवृत्तिता । यथाक्रमं समुद्दिष्टमादित्यादिदशाभुवाम् । पद्मरागस्तथा वज्रं बेदूर्य्यं मौक्तिकन्तथा । नीलं मारकतञ्चेव मुक्ता च सप्तकीर्त्तिताः । भृङ्गारसप्तके न्यास्या न भौमो मणि- मर्हति । कानकं मृण्मयं वापि सर्वेषामुपयुज्यते ।” “कानकन्तु क्षितीशानां मृण्मयं सार्वभौतिकम् । शङ्ख- पद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् । चतुर्विधानां भूपानां चान्द्रः (रौप्यः) सर्वत्र शस्यते । श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते । एतेषां सलिलैः सेकश्चतुर्णां स्यान्मयीभुजाम् । मल्ली पद्मञ्च नीलञ्च तथा कृष्णाप- राजिता । एषां पुष्याणि केशेषु चतुर्जातिमही भूजाम् । हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च । चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि । इत्थं निश्चित्य यः कुर्य्यान्नृपतिः सेकमात्मनः । सं चिरायु- र्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन्” ।
शब्दकल्पद्रुमः
भृङ्गारं || क्ली (डुभृञ् धारणपोषणयोरिति । भृ + “शृङ्गारभृङ्गारौ ।” उणा० ३ । १३६ । इति आरन् निपातनात् नुम् गुक् च ।)
लवङ्गम् । सुवर्णम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
भृङ्गारः || पुं, (भृ + आरन् नुम् गुक् च । अथवा “भृङ्गं जलमियर्त्त्यनेनेति ।” भृङ्गं + ऋ + करणे घञ् । इत्यमरटीकायां रघुनाथः ॥ स्वर्णघटित- वारिपात्रम् । (यथा मार्कण्डेयपुराणे । ८ । २०३ । “नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः ॥”)
तत्पर्य्यायः । कनकालुका २ इत्यमरः ॥ गुडुकः ३ गडुकः ४ । इति शब्दरत्नावली ॥ भृङ्ग- राजः । इति जटाधरः ॥ अथ भृङ्गारोद्देशः । “राज्ञोऽभिषेकपात्रं यद्भृङ्गार इति तन्मतम् । तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ सौवर्णं राजतं भौमं ताम्रं स्फाटिकमेव च । चान्दनं लौहजं शार्ङ्गमेतदष्टविधं मतम् ॥ भानुदिङ्नवसप्ताष्टरुद्रलोकसुरोन्मिताः । अष्टावष्टौ समाख्याता आयामपरिणाहयोः ॥ द्विचतुर्बाणवेदाब्धिबाणसप्तात्मवृत्तिता । यथाक्रमं समुद्दिष्टमादित्यादिदशा भुवाम् ॥ पद्मरागस्तथा वज्रं वैदूर्य्यमौक्तिकन्तथा । नीलं मारकतञ्चैव मुक्ता च सप्त कीर्त्तिताः ॥ भृङ्गारसप्तके न्यास्या न भौमो मणिमहति । कानकं मृण्मयं वापि सर्व्वेषामुपयुज्यते ॥ कानकन्तु क्षितीशानां मृण्मयं सार्व्वयोगिकम् । शङ्खपद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् ॥ चतुर्व्विधानां भूपानां चान्द्रः सर्व्वत्र शस्यते । श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते । एतेषां सलिलैः सेकश्चतुर्णां स्यान्महीभुजाम् ॥ मल्ली पद्मञ्च नीलञ्च तथा कृष्णापराजिता । एषां पुष्पाणि केशेषु चतुर्जातिमहीभुजाम् ॥ हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च । चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि ॥ इत्थं निश्चित्य यः कुर्य्यान् नृपतिः सेकमात्मनः । स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥” इति युक्तिकल्पतरौ भृङ्गारोद्देशः ॥