वाचस्पत्यम्
भृत्य || पु० भृ—क्यप् तुक् च । १ दासे २ भरणीये त्रि० अमरः । भावे क्यप् ३ भरणे स्त्री टाप् । “कुमारभृत्याकुशलैः” रघुः । निन्द्यानिन्द्यभृत्यपरीक्षा शुक्रनीतिसारे २ अ० उक्ता यथा “भृत्यं परीक्षयेन्नित्यं विश्वास्यं विश्वसेत् सदा । नैव जातिर्न च कुलं केवलं रुक्षयेदपि । कर्मशीलगुणाः पूज्यास्तथा जातिकुले न हि । न जात्या न कुलेनैव श्रेष्ठत्वं प्रतिपद्यते । विवाहे भोजने नित्यं कुलजाति- विवेचनम् । सत्यभाक् गुणसम्पन्नस्तथाभिजनवान् धनी । सुकुलश्च सुशीलञ्च सुकर्मा च निरालसः । यथा करो- त्यात्मकार्य्यं स्वामिकार्य्यं ततोऽधिकम् । चतुर्गुणेन यत्नेन कायवाङ्मानसेन च । भृत्यैव तुष्टो मृदुवाक् कार्य्य- दक्षः शुचिर्दृढः । परीपकरणे दक्षो ह्यपकारपराङ्- मुखः । खाम्यागस्कारिणं पुत्रं पितरं वापि दर्शकः । अन्यायगामिनि पत्यावतद्रूपः सुबोधकः । भाक्षेप्ता तद्गिरं काञ्चित् तन्यूनस्याप्रकाशकः । अदीर्थसूत्रः सत्कार्य्ये ह्यसत्कार्य्ये चिरक्रियः । न तद्भार्य्यापुत्र- मित्रच्छिद्रदर्शी कदाचन । तद्वद्बुद्धिस्तदीयेषु भार्य्या- पुत्रादिबन्धुषु । न श्लाहते स्पर्द्धते न नाभ्यसूयति निन्दति । नेच्छत्यन्याधिकारं हि निस्पृहो मोदते सदा । तद्दत्तवस्त्रभूषादिधारकस्तत्पुरोऽनिशम् । भृति- तुलस्यव्ययी दान्तो दयालुः शूर एव हि । तद कार्य्यस्य रहसि सूचको भृतको वरः । विपरीतगुणै- रेभिर्भृतको निन्द्य उच्यते । ये भृत्या हीनभृतिला ये दण्डेन प्रकर्षिताः । शठाश्च कातरा कुब्जाः समक्षं प्रियवादिनः । मत्ता व्यसनिनश्चार्त्ता उत्कोचेष्टाश्च देविनः । नास्तिका दाम्भिकाश्चैवासत्यबाचोऽभ्यसू- यकाः । ये चापमानिता येऽसद्वाक्यैर्मर्मणि भेदिताः । रिपोर्मित्रासेवकाश्च पूर्ववैरानुबन्धिनः । चण्डाः साह- सिका धर्महीना नैते सुसेवकाः । संक्षेपतस्तु कलितं सदसद्भृत्यलक्षणम्” । तत्परिशिष्टे सर्वभृत्यकृत्यमुक्तं यथा ||“उत्थाय पश्चिमे यामे गृहकृत्यं विचिन्त्य च । कृत्वोत्सर्गं तु विष्णु हि स्मृत्वा स्वायादनन्तरम् । प्रातः कृत्यं तु निर्वर्त्य यावत् सार्द्धमुहूर्त्तकम् । गत्वा स्वकार्य्यशालायां कार्य्याकार्य्यं विचिन्त्य च । विशङ्गया विशन्तं तु द्वाःख्यः सम्वग् निरोधयेत् । निदेशकाय विज्ञाप्य तेनाज्ञप्तः प्रमोचयेत् । दृष्ट्वाभतान् सभामध्ये राज्ञे दण्डधपः क्रमात् । निवेद्य तन्नतीः पञ्चात् तेषां स्थानानि सूचयेत् । ततो राजगृहं गत्वा- ऽऽज्ञप्तौ गच्छेच्च मन्निधिम् । नत्वा नृपं यथान्यायं विष्णुरूपमिवापरम् । प्रविश्य सानुरागस्य चित्तज्ञस्य समन्ततः । भर्त्तुरर्द्धसने दृष्टिं कृत्वाऽन्यत्र विनिःक्षि- पेत् । अग्निं दाप्तमिवासीदेद्राजानमुपशिक्षितः । आ- शीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् । यत्नेनोपचरे- न्नित्यं नाहमस्मीति चिन्तयन् । समर्थयंश्च तत्पक्ष याधु भाषत भाषितम् । तन्नियोगेन वा ब्रूयादर्थं सुपरि- निश्चितम् । सुराप्रबन्धगौडीषु विवादे वादिनां मतम् । विजानन्नपि नो ब्रूयात् मर्त्तुः क्षित्पोत्तरं वचः । सदा- ऽनुद्धतवेषः । स्यान्नृपाहूतस्तु प्राञ्जलिः । तद्गा कृतनतिः श्रत्वा वस्त्रान्तारतसम्मुखः । तदाज्ञां धारयित्वादौ स्वकार्य्याणि निवदयेत् । नत्वाऽऽसीतासने प्रह्वस्तत्- पार्श्वे सम्मुखाज्ञया । उच्चैःप्रहसनं कासं ष्ठीवनं कुत्सनं तथा । जृम्भणं मात्रभङ्गं वा पर्वास्फोटञ्च वर्ज- येत् । राज्ञादिष्टं तु यत् स्थानं तत्र तिष्ठेन्मुदान्वितः । प्रवीणोचितमेधावी वर्जयेदभिमानिताम् । आप- द्युन्मार्गगमने कार्य्यकालात्ययेषु च । अपृष्टोऽपि- हितान्वेषी ब्रूयात् कल्याणभाषितम् । प्रियं तस्यं च पथ्यञ्च वदेत् धर्मार्थकं वचः । समानवार्त्तया चापि तन्नितं बोधयेत् सदा । कीर्त्तिमन्यनृपाष्णां च वदे- न्नीटिकलं तथा । दाता त्वं धार्मिकः शूरोनीतिमानसि भूपते! । अनीतिस्ते तु मनसि वर्त्तते न कदाचन । ये ये भ्रष्टा अनीत्या तान् तदग्रे कीर्त्तयेत् सदा । नृपेभ्या ह्यधिकोऽसीति सर्वेभ्योऽपि विशेषयेत् । परार्थं देशकालज्ञो देशे काले च साधयेत् । परार्धनाशनं न स्यात्तथा ब्रूयात् सदैव हि । न कर्षयेत् प्रजाकार्य्य- मुपेतश्च नृपं वदा । अपि स्थाणुबदासीत शुष्यन् परि- गतः क्षुधा । जात्वेवानर्धसम्पन्नां वृत्तिं नेहेत पण्डितः । यत्कार्य्ये यो नियुक्तः स भूयात्तत्कार्य्यतत्परः । नान्याधिकारमन्विच्छेन्नाभ्यसूयेच्च केनचित् । न न्थूनं लक्षयेत् कस्य पूरयीत खशक्तितः । परोपकरणं भ्रश्यन्न- स्यान्मितकरः सदा । करिष्यामीति ते कार्य्यं न कुर्य्यात् काललम्बनम् । द्राक् कुर्य्यात्तु समर्थश्चेत् स्वांशं दीर्घं न रक्षयेत् । गुह्यं कर्म च मन्त्रं च न भर्त्तुः संप्रश्चाशयेत् । विद्वेषं च विमाशं च मनसापि न चिन्तयेत् राजा परममित्रोऽस्ति ग कालं विरिचेदिति । स्त्रीभिस्तदर्थिमिः पापैर्वैरिभूतैर्निराकृतैः । एकार्थचर्य्यं साहित्यं संसर्गञ्च विवर्जयेत् । वेषभाषामुकरणं न कुर्य्यात् पृथिवीपतेः । सम्पन्नोऽपि च मेधावी न च स्पर्द्धेत तद्गुणैः । रागापरागौ जानीयाद्भर्तुः कुशल- कर्मकृत् । ईङ्गिताकारचेष्टाभ्यस्तदभिप्रायतां तथा । त्यजेत् विरक्तं नृपतिं रक्ते वृत्तिं तु कारयेत् । विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा । आशावर्द्धनकं (कामच्छेदम्) कृत्वा फलनाशं करोति च । अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः । वाक्यञ्च समदं वक्ति वृत्तिच्छेदं करोति च । लक्ष्यते विमुखश्चैव गुणसं- कीर्त्तने कृते । दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि । विरक्तलक्षणं ह्येतद्रक्तस्य लक्षणं ब्रुवे । दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् । कुशलादि यदि पृच्छेत् प्रदापयति आसनम् । विविक्तदर्शनं चास्य रह- श्येनं न शङ्कते । जायेत हृष्टवदनः श्रुत्वा तद्गिरम- न्तरा । अप्रियाण्यपि चान्यानि तद्युक्तान्यभिमन्यते । उपायनं च गृह्णाति स्तोकं सम्पादयेत्तथा । कथान्तरेषु स्परति प्रहृष्टवदनस्तथा । इति रक्तस्य वै लक्ष्म कर्त्तव्यं तस्य सेवनम् । तद्दत्तवस्त्रभूमादि चिह्नं संधारयेत् सदा । न्यूनाधिके स्वाधिकारे नित्योद्युक्तो भवेत् सदा । तदर्थां तत्कृतां वार्त्तां शृणुयाद्वाषि कीर्त्तयेत् । चार- सूचकदोषेण ह्यन्यथा यदृशे नृपः । शृणुयान्मौनमा- श्रत्य तथ्यं यत्नेन मोदयेत् । आपद्गतं सुभर्त्तारं कदापि न परित्यजेत् । एकवारमथादिष्टं यत्स्थानं ह्यादरेण तत् । तदिष्टं चिन्तयेन्नित्यं पालकस्याञ्जसा न किम् । अप्रधानः प्रधानः स्यात्, काले चात्यन्त- सवनात् । प्रधानीऽप्यप्रधानः स्यात् सेवालस्यादिना यतः । नित्यं संसेवनरतो भृत्यो राज्ञः प्रियो भवेत् । स्व स्वाधिकारकार्य्यं यत् द्राक् कुर्य्यात् सुमाना यतः । न कुर्य्यात् सहसा कार्य्यं नीचं राजापि नोदिशेत् । तत् कार्य्यकारकाभाये राज्ञः कार्य्यं सदैव हि । काले यदुचितं कर्त्तुं नीचमप्युत्तमोऽर्हति । यस्मिन् प्रीतो भवेद्राजा तदनिष्टं न चिन्तयेत् । न दर्शयेत् स्याधिकारगौरवं तु कदाचन । परस्परं नाभ्यसूयुर्न मेदं प्राप्नुयुस्तथा । राज्ञा चाधिकृताः सन्तः स्वस्वाधिकारगुप्तये । अधि- कारिगणो राजा सद्वृत्तौ यत्र तिष्ठतः । उभौ, तत्र स्थिरा लक्ष्मीर्विपुला समुखीभवेत् । अन्याधिकार- वृत्तं तु न ब्रूयाच्छ्रुतमप्युत । राजा न शृणुयादन्य मुखतस्तु कदाचन । न बोधयन्ति च हितमहितं चाधिकारिणः । प्रच्छन्नवैरिणस्ते तु दासरूपमुपा- श्रिताः । हिताहितं न शृणोति राजा मन्त्रिसुखाच्च यः । स दस्यूराजरूपेण प्रजानां धनहारकः । सुपुष्ट- व्यवहारा य राजपुत्रैश्च मन्त्रिणः । विरुध्यन्ति च तैः साकं ते तु प्रच्छन्नतस्कराः । बाला षपि राजपुत्राः नाव- मान्यास्तु मन्त्रिभिः । सदा सुबहुवाक्यैस्तु संबोध्यास्ते प्रयत्नतः । असदाचरितं तेषां क्वचित् राज्ञे न दर्शयेत् । स्त्रीपुत्रमोहो बलवान् तयोर्निन्दा न श्रेयसे । राज्ञोऽवश्य- तरं कार्य्यं प्राणसंशयितं च यत् । आज्ञापयाग्रतश्चाहं करिष्ये तत्तु निञ्चितम् । इति विज्ञाप्य तत् कर्त्तुं प्रयतत खशक्तितः । प्राणानपि च संदद्यान्महाकार्य्ये नृपस्य च । भृत्यकुटुम्बपुष्ट्यर्थं नान्यथा तु कदाचन । भृत्या धनहराः सर्वे युक्त्या प्राणहरो नृपः । युद्धादौ तु महाकार्य्ये भृत्यप्राणान् हरेन्नृपः । नान्यथा भृति- रूपेण भृत्यो राजधनं हरेत् । अन्यथा हरतस्तौ तु भवतश्च स्वनाशकौ । राजा च युवराजश्च मान्योऽमात्या- दिक्कै सदा । तद्यूनामात्येन च किं तच्छूनाधिकृतेन किम् । मन्त्रितुल्यश्च भृतको न्यूनः साहखिको मतः । न क्रीडवेद्राजसमं व्रोडिते तं विशेषयेत् । नावम्मान्या राजपत्नी कन्या ह्यपि च मन्त्रिभिः । राजसम्बन्धिनः पूज्याः सुहृदश्च यथार्हतः । नृपाहूतस्तुरं गच्छेत् त्यक्त्वा कार्य्यशतं महत् । मित्रायापि न वक्तव्यं राजकत्यं सुमन्त्रितम् । भृतिं विना राजद्रव्यमदत्तं नाभिलाष- येत् । राजाज्ञया विना नेच्छेत् कार्य्य माध्यस्थिकीं भृतिम् । न हि हन्यात् द्रव्यलोमात् न कार्य्यं यस्य कस्यचित् । स्वस्त्रीपुत्रधनप्राणैः काले संरक्षयेन्नृपम् । उत्कोचं नैव गृह्णीयात् नान्यथा बोधयेन्नृपम् । अन्यभा- दण्डकं भूपं नित्यं प्रबलदण्डकम् । निगृह्य बाधयेत् सम्यक् एकान्ते राज्यगुप्तये । हितं राज्ञश्चाहितं यल्लोकानां तन्न कारयेत् । नवीनकरशुक्लाद्यैर्लोक उद्विजते ततः ।” ||“भृत्यः कुर्य्यात् तु राजाज्ञां शिष्यवत् सश्रियः पतेः । न क्षिपेत् वचनं राज्ञो ह्यनुकूनं प्रियं षदेत् । रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् । न नियुक्तो हरेद् वित्तं नोपेक्षेत् तस्य मानकम् । राज्ञश्च न तथा- कार्य्यं वेशभाषाविचेष्टितम् । अन्तःपुरचराध्यक्षो वैरभूतै- र्निराकृतेः । संसर्गं न व्रजेद् भृत्यो राज्ञो गुह्यञ्च गोप- येत् । दर्शयेत् कौशलं किञ्चिद्राजानं च विशेषयेत् । राज्ञा यच्छ्रावितं गुह्यं न तल्लाके प्रकाशयेत् । आज्ञाप्यमाने वान्यस्मिन् किङ्करोमीति वा वदेत् । वस्त्रं रत्नमलङ्कारं राज्ञा दत्तं च धारयेत् । नानिर्दिष्टो द्वारि विशेन्ना- योग्यभुवि राजदृक् । जृम्भां निष्ठीवनङ्कासं कोपं पर्य्यङ्किकाश्रयम् । भृकटीं वातसुद्गारं तत्समीपे विवर्जयेत् । स्वगुणाख्यापने युक्त्या परात्मानं नियो- जयेत् । शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रता तथा । चापल्यञ्च परित्याज्य नित्यं राजानुजीविना । श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना । राजसेवां ततः कुर्य्याद् भूतये भूतिवर्द्धनः । नमस्कार्य्याः सदा चास्य पुत्रवल्लभमान्त्रणः । सचिवैर्नास्य विषासो राज- चित्तप्रियञ्चरेत् । त्यजेद् बिरक्तं रकात् तु वृत्तिमीहेत राजवित् । अपृष्टश्चास्य न ब्रुयात् कामं कर्य्यात तथा- पदि । आसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते । कुशलादि परिप्रश्नं सम्प्रयच्छति चासनम् । तत्कथा- श्रवणाद्धृष्टो ह्यप्रियाण्यपि नन्दते । अल्पं दत्तं प्रगृ- ह्णाति स्मरेत् तत्तु कथान्तरे । रक्तस्य राज्ञः कर्त्तव्या सेवामन्यस्य वर्जयेत्” अग्निपु० २२१ अ० । ते च दशधा तेषां प्राधान्याप्राधान्ये च तत्रैव उक्ते यथा “पुसोधाः प्रथमं श्रेष्ठः सर्वेभ्यो राजराष्ट्रभृत् । तदनु- स्यात् प्रतिनिधिः प्रधानस्तदनन्तरम् । सचिवस्तु ततः प्रोक्तो मन्त्री तदनु चोच्यते । प्राड्विवाकस्ततः प्रोक्तः पण्डितस्तदनन्तरम् । सुमन्त्रस्तु ततः ख्यातो ह्यमात्यस्तु ततःपरम् । दूतस्ततः क्रमादेते पूर्वश्रेष्ठा यथा गुणाः” । तत्करणमुहूर्त्तादि मु० चि० उक्तं यथा “क्षिप्रे मैत्रे वित्सितार्केज्यवारे सौम्ये लग्नेऽर्के कुजे वा खलाभे । योनौ मैत्र्यां राशिपोश्चापि मैत्र्यां सेवा कार्य्या स्वामिनः सेवकेन” मु० चि० । “अथ सेव- कस्य स्वामिसेवायां मुहूर्त्तं शालिन्याह । क्षिप्रे मैत्रे इति । क्षिप्रे मैत्रे अश्विनीपुष्यहस्तचित्रानुराधामृग- रेवतीपुष्यनक्षत्रेषु, वित्सितार्केज्यबारे बुधशुक्रसूर्य्य- गुरुवारे तथा सौम्यग्रहे लग्नसंस्थे सति अर्के वा अथ वा कुजे भौमे वा खलाभे दशमैकादशस्थे सति सेवकेन भृत्येन स्वामिनो राजादेः सेवा कार्य्या । रा- जादिदर्शनं प्रागुक्तं वेतनग्रहणकार्य्याद्यङ्गीकारूपा सेवास्मिन् मुहुर्त्ते काय्यां तत्रापि स्वामिसेवकयोर्योनि- मैत्र्यां सत्याञ्च पुनः राशिपोः स्वामिसेवकयोर्यौ जन्मराशी तयोर्यावधिपती तयोरपि मैत्र्यां प्रीतौ सत्यां कार्या उक्तञ्च श्रीपतिना “शुभे विलग्ने दशमायगे च रवौ कुजे वा स्ववशेन योनेः । विद्यायुधाभ्यासरतेन कार्य्य समाश्रयः स्वामिनि सेवकेन” । कश्यपोऽपि “दशमैकादशे सूर्य्ये कुजे वा शुभलग्नके । विद्यायुधाभ्यासयुक्तसेवा, कर्मापि सिद्ध्यति” । राशिमैत्रीसाहित्यं तु “बभ्रूरगं श्वेणमिभेन्द्रसिंहमोत्वास्वुसंज्ञं त्वजवानरञ्च गोव्याघ्रमश्वो- त्तरमाहिषञ्च वैर नृनार्योर्मृपभृत्ययोश्चेति” वसिष्ठीक्ति मङ्गीकृत्य तुल्यन्यायत्वादत्राप्युक्तं ग्रन्थकृता योनिमैत्री राशिमेत्री च विवाहप्रकरणे अश्विन्यम्बुपयोरिति “मित्राणि द्युमणेरिति वक्ष्यते” र्पा० धा० । उपयमशब्दे १२५० पृ० दृश्यम् ।
शब्दकल्पद्रुमः
भृत्यः || पुं, (भ्रियते इति । भृ + “भृञोऽसंज्ञा- याम् ।” ३ । १ । ११२ । इति क्यप् । “ह्नस्वस्य पिति कृति तुक् ।” ६ । १ । ७१ । इति तुगा- गमश्च ।)
दासः । इत्यमरः । २ । १० । १७ ॥ (तथास्य पर्य्यायान्तरम् । “परिकर्म्मा परिचरः सहायः परिचारकः । प्रेष्यो भत्य उपस्थाता सेवकोऽभिषवोऽनुगः ॥” इति वैद्यकरत्नमालायाम् ॥)
तस्य लक्षणं यथा, — सूत उवाच । “भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः । नियोक्तव्या यथार्थेषु त्रिविधेष्वेव कर्म्मसु ॥ भृत्यपरीक्षणं वक्ष्ये यस्य यस्य हि यो गुणः । तमिमं संप्रवक्ष्यामि यद्यदा कथितानि च ॥ यथा चतुर्भिः कनकं परीक्ष्यते तुलाघर्षणच्छेदनतापनेन । तथा चतुर्भिर्भृतकः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्म्मणा ॥” कुलशीलगुणोपेतः सत्यधर्म्मपरायणः । रूपेण सुप्रसन्नश्च राज्याध्यक्षो विधीयते ॥ मूल्यरूपपरीक्षाकृद्भवेद्रत्नपरीक्षकः । बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥ इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः । सर्व्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ बुद्धिमान् मतिमांश्चैव परचित्तोपलक्षकः । क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥ समस्तकृतशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः । शौर्य्यवीर्य्यगुणोपेतो धर्म्माध्यक्षो विधीयते ॥ पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः । शौचयुक्तः सदाचारी सूपकारः स उच्यते ॥ आयुर्व्वेदकृताभ्यासः सर्व्वज्ञः प्रियदर्शनः । आर्य्यशीलगुणोपेतो वैद्य एष विधीयते ॥ वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्व्वादपरो नित्यमेष राजपुरोहितः ॥ इति गारुडे ११२ अध्यायः ॥