वाचस्पत्यम्
भेदन || त्रि० भेदयति भिद—णिच्—ल्यु । १ विरेचने २ विशेषणे च ३ हिङ्गौ न० ४ शूकरे ५ अम्लवेतसे च पु० राजनि० । भिद- भावे ल्युट् । ६ विदारणे ७ द्वैधीकरणे न० ।
शब्दकल्पद्रुमः
भेदनं || क्ली (भिद्यतेऽनेनेति भिद् + ल्युट् ।)
हिङ्गु । इति राजनिर्घण्टः ॥ विदारणम् । इति भिदधातोर्भावेऽनट् प्रत्ययेन निष्पन्नम् ॥ (भेदकारके, त्रि ॥ यथा, भागवते । ३ । २६ । २ । “यदाहुर्वर्णये तत् ते हृदयग्रन्थिभेदनम् । “अहङ्कारनिवर्त्तकमिति स्वामिव्याख्यानम् ॥” विरेचनकारके च । यथा च सुश्रुते । १ । १८८ । १४ ॥ सर्व्वं पित्तकरं मद्यमम्लं दीपनरोचनम् । भेदनं कफवातघ्नं हृद्यं वस्तिविशोधनम् ॥”)
शब्दकल्पद्रुमः
भेदनः || पुं, (“भिद्यतेऽनेनेति ।” भिद + ल्युट् ।)
अम्लवेतसः ॥ (भिनत्ति भूमिमिति । ल्युः ॥ शूकरः । इति राजनिर्घण्टः ॥