वाचस्पत्यम्
भेदित || त्रि० भिद—णिच्—क्त । १ विदारिते भिन्ने च “आद्वयं हृदये, शीर्षे वषट् वौषट् च मध्यमे । स एव भेदितो मन्त्रः सर्वशास्त्रविवर्जितः” तन्त्रसारोक्ते ३ मन्त्रभेदे पु० ।
शब्दकल्पद्रुमः
भेदितः || त्रि (भिद + णिच् + कर्म्मणि क्तः ।)
भिन्नः । दारितः । इत्यमरः । ३ । १ । १०० ॥