संस्कृत-शब्दकोशः

भेरीस्वनमहास्वना भेरुण्डा

भेरुण्ड

वाचस्पत्यम्

भेरुण्ड ||‍ न० १ गर्भधारणे शब्दर० २ भयानके त्रि० ३ देवताभेदे कालिपु० “महाविश्वेश्वरी श्वेता भेरुण्डा कुलसुन्दरी” तत्सहस्रनाम । ४ यक्षिणीभेदे स्त्री मेदि०


शब्दकल्पद्रुमः

भेरुण्डं || क्ली गर्भधारणम् । भयानके, त्रि । इति शब्दरत्नावली ॥



Correction: