संस्कृत-शब्दकोशः

भैमी भैरवी

भैरव

वाचस्पत्यम्

भैरव ||‍ पु० भीरोरिदम् अण् । १ भये २ तद्वति त्रि० अमरः । नाट्यादिप्रसिद्धे ३ भयानके रसे । ४ भयसाधने त्रि० मेदि० स्त्रियां ङीप् । ५ शङ्करे ६ तदवतारतद्गणभेदे शब्दर० ७ नदभेदे च पु० हेमच० । ८ शिवपत्न्यां स्त्री ङीप् । भैरवभेदानामुत्पत्तिर्वामनपु० २७ अ० यथा “दैत्याधिपः समुत्पत्य हरोरसि गदां क्षिपत् । संहि- तस्तु महायोगी सर्वाधारः प्रजापतिः । गदापातक्षता- द्भूरि चतुर्धाऽसृगथापतत् । पूर्वधारासमुद्भूतो भैरवो- ऽग्निसमप्रभः । विद्याराजेति विख्यातः पद्ममालावि- भूषितः । तथा दक्षिणधारीत्थो भैरवः प्रेतमास्थितः । कामराजेति विख्यातः कृष्णाञ्जनसमप्रभः । नागराजेति विख्यातश्चक्रमालाविभूषितः । क्षतजाद्रुधिराज्जातो भैरवः शूलभूषितः । सच्छन्दराजेति ख्यात इन्द्रा- युधसमप्रभः । भूयिष्ठाद्रुधिराज्जातो भैरवः फलमूमितः । ख्यातो लग्वितराजेति शीभाञ्जनसमप्रभः । ततो भूद्देवराजेति भैरवः क्षतजादथ । उग्रराजो बभूवाथ क्षतजाद्भैरवोऽपरः । एवं हि सप्तरूपोऽसौ कथ्यते भैरवोमुने! । विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते ।” शारदीयदुर्गापूजायां तस्याश्चाष्टौ भैरवा यथोक्तं ब्रह्मवै० प्र० ख० ६१ अ० । “आदौ महाभैरवञ्च संहारभैरवन्तथा । असिताङ्गभैरवञ्च रुरुभैरवमेव च । ततः कालभैरवञ्च क्रोधभैरवमेव च । ताम्रचूडं चन्द्रचूडम् अन्ते च भैरवद्वयम् । एतान् संपूज्य मध्ये च नव शक्तीश्च पूज- येत् ।” कालीपूजादौ पूजनीया भैरवाश्च तन्त्रसारोक्ता यथा “ससिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः । कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः” । ९ शिवगणा- धिपभेदे कालि० पु० ४४ अ० यथा “नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा । अङ्गं भूत्वा महे- शस्य वीतभीतास्तपोधनाः । यैर्मानुषशरीरेण प्रापिरे तपसोबलात् । गणानामाधिपत्यन्तु ते जानन्ति हरं परम् ।” शिवांशकरवीरभूपचन्द्रशेखरस्य पार्वत्यंश तारा- वतीगर्भजाते १० वेतालसोदरे च यथोक्तं कालिपु० ४५ अ० । “प्रविवेश ततो देवी स्वयं तारावतीतनौ । महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः । कामावसाने तस्यान्तु सद्योजातं सुतद्वयम् । अभवन्नृपशार्दूल! तथा शाखा- मृगाननम् । ततस्तयोर्नाम चक्रे नारदवचनान्नृपः । ज्येष्ठो भैरबनामाभूत् भीरोः पुत्रो भयङ्करः । वेताल- सदृशः कृष्णो वेतालोऽभूत्तथाऽपरः” । अपि च “यीऽसौ भृङ्गी हरसुतो महाकालोऽपि भूगतः । तावेव गौरी- शापेन सम्भूय नरयोनिजौ । वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि । यथा भृङ्गिमहाकालावुत्पन्नौ प्राक् तथा शृणु । योऽसौ महाभैरवाख्यः सकायः शारमो हरः । भैरवः पृथगेवायं गणाध्यक्षो हरा- त्मजः ।” देवीभेदेषु शिवरूपभैरवभेदाश्च तीडल- तन्त्रे १ पटले उक्ता यथा “शिव उवाच । शृणु चार्वङ्गि! शुभगे! कालिकायाश्च भैरवम् । महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् । महाकालेन वै सार्द्धं दक्षिणा रमते सदा । ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत् । समुद्रमथने देवि! कालकूटं समुत्थितम् । सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः । क्षोभादि- रहितं यस्मात् पीतं हालाहलं विषम् । अतएव महेशानि! अक्षोभ्यः परिकीर्त्तितः । तेन सार्द्धं महा- माया तारिणी रमते सदा । महात्रिपुरसुन्दर्य्या दक्षिणे पूजयेत् शिवम् । पञ्चवक्त्रं त्रिनेत्रञ्च प्रतिवक्त्रं सुरे- श्वरि! । तेन सार्द्धं महादेवी सदा कामकुतूहला । अतएव महेशानि! पञ्चमीति प्रकीर्त्तिता । श्रीमद्भु- वनसुन्दर्य्या दक्षिणे त्र्यम्बकं यजेत् । स्वर्गे मर्त्त्ये च पाताले या चाद्या भुवनेश्वरी । एतया रसते तेन त्र्यम्बकस्तेन कथ्यते । सशक्तिश्च समाख्यातः सर्वतन्त्रे प्रपूजितः । भैरव्या दक्षिणे भागे दक्षिणामूर्त्तिर्सज्ञ- कम् । पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि । छिन्न- मस्तादक्षिणांशे कबन्धं पूजयेत् शिवम् । कबन्ध- पूजनाद्देवि! सर्वसिद्धीश्वरी भवेत् । धूमावती महा- मिद्या विधवा रूपधाऐणी । वगलाया दक्षभागे एक- वक्त्रं प्रपूजयेत् । महारुद्रेति विख्यातं जगत्संहार- कारकम् । मातङ्गीदक्षिणांशे च मतङ्गं पूजयेत् शिवम् । तमेव दक्षिणामूर्त्तिं जगदानन्दकारकम् । कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् । पूजयेत् परमेशानि! स सिद्धो नात्र संशयः । पूजयेदन्नपूर्णाया दक्षिणांशे च रूपकम् । महामोक्षप्रर्द देवं दश- वक्त्रं महेश्वरम् । दुर्गाया दक्षिणे देशे नारदं परि- पूजयेत् । नकारः सृष्टिकर्त्ता च दकारः पालकः सदा । रेफसंहाररूपत्वान्नारदः परिकीर्त्तितः । अन्यासु सर्व- विद्यासु ऋषिर्यः परिकीर्त्तितः । स एव तस्या भर्त्ता च दक्षभागे तु पूज्यते” । ११ रागभेदे स च महादेवस्वरूपः । धैवतनिषादषड्जगान्धारमध्यमरूपपञ्चस्वरमिलितैर्गेयः । अस्य स्थानं धैवतस्वरः शरदृतौ प्रातर्गेयता । मतान्तरे अस्य रागिण्यः पञ्च । भैरवी वैराटी मधु- माधवी सिन्धवी वङ्गाली चेति” कलानाथमते भैरवो गुर्लरी भाषा विलाबली कर्णाटी वतंसा वडहंसी चेति षट् । भरतमते मधुमाधवी ललिता वरारी बहाकुली भैरवी चेति अन्यविधा पञ्च सङ्गी० दा० दृश्या । १२ महाविद्यामूर्त्तिभेदे स्त्री ङीप् सा च पञ्चदशविधा तन्त्रसारे उक्ता यथा १ त्रिपुरभैरवी २ सम्पत्प्रदा भैरवी ३ कौलेशभैरवी ४ भय- विध्वंसिनी भैरवी ५ सकलसिद्धिदा भैरवी ६ चैतन्यभैरवी ७ कामेश्वरी भैरवी ८ षट्कूटा भैरवी ९ नित्या भैरवी १० रुद्र- भैरवी ११ भुवनेश्वरी भैरवी १२ सकलेश्वरी भैरवी १३ त्रि- पुरबालाभैरवी १४ नवकूटा वालाभैरवी १५ अन्नपूर्णेश्वरी- भैरवी च एतासां मन्त्रध्यानादिकं क्रमेण तत्र दृश्यम् । १३ तारिणीशक्तियोगिनीभेदे च “महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च । घोरास्या भ्रामरी चैव महा- रात्रिश्च सप्तमी । अष्टमी भैरवी प्रोक्ता योगिनीस्ताः प्रपूजयेत्” तन्त्रसा० । तत्र शिवस्य पत्न्यां “कालीतन्त्रादौ “भैरव्युवाच “कालीपूजा श्रुता नाथ” कालीकवचम् १४ भैरवरागस्य पत्नीरूपरागिणीभेदे स्त्री “भैरवी कौशिकी चैव भाषा वेलाबली तथा । बङ्गाली चेति रागिण्यो भैरवस्यैव वल्लभाः” संगीतसा० । मतान्तरे १५ मालवरागस्य पत्नीभेदे “धानसी मानसी चैव रामकीरी च सिन्धुता । आशावरी भैरवी च मालवस्य प्रिया इमाः” । तस्या गान- कालः पूर्वाह्णः । “विभाषा ललिता चैव कामोदा पठ- मञ्जरी । रामकीरी रामकेली वेला मारी च गुर्जरी । देशकारी च सुभगा पञ्चमी च गडातुडी । भैरवी चाथ कौमारी रागिण्यो दश पल्ल च । एताः पूर्वाह्णकाले तु गीयन्ते गायनोत्तमैः” सङ्गीतदा० । १५ नागभेदे पु० भा० आ० ५७ अ० ।


शब्दकल्पद्रुमः

भैरवं || त्रि (भीरोरिदं त्रासकृत् । भीरु + अण् ।)
भयानकम् । इत्यमरः । १ । ७ । २० । (यथा, महाभारते । १ । १६४ । २७ । “सव्येन च कटीदेशे गृह्य वाससि पाण्डवः । तद्रक्षो द्विगुणं चक्रे रुवन्तं भैरवं रवम् ॥”)
अस्य पर्य्यायाः भयङ्करशब्दे द्रष्टव्याः ॥


शब्दकल्पद्रुमः

भैरवः || पुं, (भीर्भयङ्करो रवो यस्य । इति भीरव । ततः स्वार्थे अण् ।)
शङ्करः । इति मेदिनी । वे ४६ ॥ भयानकरसः । इत्यमरटीकायां भरतः ॥ नदविशेषः । इति शब्दरत्नाबली ॥ रागभेदः । इति हेमचन्द्रः ॥ * ॥
अष्टभैरवाणामुत्पत्तिर्यथा, “दैत्याधिपः समुत्पत्य हरोरसि गदां क्षिपत् । संस्थितस्तु महायोगी सर्व्वाधारः प्रजापतिः ॥ गदापातक्षताद्भूरि चतुर्धासृगथापतत् । पूर्ब्बधारासमुद्भूतो भैरवोऽग्निसमप्रभः ॥ विद्याराजेति विख्यातः पद्ममालाविभूषितः । तथा दक्षिणधारोत्थो भैरवः प्रेतमास्थितः ॥ कामराजेति विख्यातः कृष्णाञ्जनसमप्रभः । नागराजेति विख्यातश्चक्रमालाघिभूषितः ॥ क्षतजाद्रुधिराज्जातो भैरवः शूलभूषितः । सच्छन्दराजेति विख्यात इन्द्रायुधसमप्रभः ॥ भूयिष्ठाद्रुधिराज्जातो भैरवः फलभूषितः । ख्यातो लम्बितराजेति शोभाञ्जनसमप्रभः ॥ ततोऽभूद्देवराजेति भैरवः क्षतजादथ । उग्रराजो बभूवाथ क्षतजाद्भैरवोऽपरः ॥ एवं हि सप्तरूपोऽसौ कथ्यते भैरवो मुने ! । विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते ॥” इति वामनपुराणे अन्धकवरप्रदाने भैरवप्रादु- र्भावे ६७ अध्यायः ॥ * ॥
शारदीयदुर्गापूजायां अष्टौ पूज्यभैरवा यथा, “आदौ महाभैरवञ्च संहारभैरवं तथा । असिताङ्गभैरवञ्च रुरुं भैरवमेव च ॥ ततः कालं भैरवञ्च क्रोधभैरवमेव च । ताम्रचूडं चन्द्रचूडं अन्ते च भैरवद्वयम् ॥ एतान् संपूज्य मध्ये च नवशक्तीश्च पूजयेत् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे दुर्गोपाख्याने ६१ अध्यायः ॥ ताम्रचूडचन्द्रचूडयोः स्थाने कपालभैरवरुद्र- भैरवौ ज्ञेयौ । इति तत्रैव गणपतिखण्डे ४१ अध्यायः ॥ * ॥
अपि च । “असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः । कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ॥” इति तन्त्रसारः ॥ * ॥
शिवगणाधिपभैरवो यथा, —
“नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा । अङ्गं भूत्वा महेशस्य वीतभीतास्तपोधनाः ॥ यैर्मानुषशरीरेण प्रापिरे तपसो बलात् । गणानामाधिपत्यन्तु ते जानन्ति हरं परम् ॥” इति कालिकापुराणे ४४ अध्यायः ॥ * ॥
करवीरपुरराजचन्द्रशेखरपत्नीतारावतीगर्भे महादेवाज्जातपुत्त्रः । स च पुरा भृङ्गी बभूव पार्व्वतीशापात् वानरमुखो भूत्वा भैरव इति नाम्ना ख्यातः । यथा, —
“प्रविवेश ततो देवी स्वयं तारावतीतनौ । महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः ॥ कामावसाने तस्यान्तु सद्यो जातं सुतद्वयम् अभवन्नृपशार्दूल ! तथा शाखामृगाननम् ॥ ततस्तयोर्नाम चक्रे नारदो वचनान्नृप ! । ज्येष्ठो भैरवनामाभूत् भीरोः पुत्त्रो भयङ्करः । वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः ॥” इति कालिकापुराणे ४९ अध्यायः ॥ * ॥
अपि च । “योऽसौ भृङ्गी हरसुतां महाकालोऽपि भर्गजः । तावेव गौरीशापेन सम्भूय नरयोनिजौ ॥ वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि । यथा भृङ्गिमहाकालावुत्पन्नौ प्राक् तथा शृणु । योऽसौ महाभैरवाख्यः सकायः शारभो हरः । भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः ॥” इति कालिकापुराणे ४५ अध्यायः ॥ * ॥
दुर्जयाख्यगिरिस्थभैरवो यथा, —
“तन्मध्ये भैरवो देवो भर्गसङ्गमसम्भवः । दुर्जयाख्ये वरगिरौ स्वर्गस्योपमभूमिगः ॥ योऽसौ शरभरूपस्य मध्यखण्डादिभैरवः । स एव भैरवाख्योऽयं पञ्चवक्त्रस्य मन्त्रकैः । संपूज्य तत्र मतिमान् स याति शिवलोकताम् ॥” इति कालिकापुराणे ८१ अध्यायः ॥ * ॥
भैरवस्य मन्त्रो यथा, —
“केवलः सपरो हादिः षष्ठस्वरसमन्वितः । चन्द्रबिन्दुसमायुक्तं हयग्रीवस्य बीजकम् ॥ भैरवं पाण्डुनाथन्तु वनमालिस्वरूपिणम् । वाराहेण तु बीजेन पूजयेत्तु विधानतः ॥ सपरौ द्वावनुस्वारविसर्गाभ्यां समन्वितौ । महाभैरवमन्त्रोऽयं भैरवं तेन पूजयेत् ॥” इति कालिकापुराणे ६२ अध्यायः ॥ * ॥
अस्य ध्यानं यथा, —
“भैरवः पाण्डुनाथश्च रक्तगौरश्चतुर्भुजः । गदां पद्मञ्च शक्तिञ्च चक्रञ्चापि करेण च । बिभ्रद्देव्याः पुरोभागे पूज्योऽयं विष्णुरूपधृक् ॥” इति तत्रैव ६० अध्यायः ॥ * ॥
अस्य गायत्त्री यथा, —
“महाभैरव विद्महे केलिरूपाय धीमहि । तन्नः कामो भैरवस्तु देवी नित्यं प्रचोदयात् ॥ एषा भैरवरूपस्य गायत्त्री मे प्रतिष्ठिता । यथेष्टमांसमद्यादिभोजनाय मया धृतः ॥ महाभैरवरूपोऽयं तथा स्त्रीरतिसङ्गमे । अयन्तु वाम्यभावेन पूज्यो मद्यादिभिः सदा ॥” इति कालिकापुराणे ७७ अध्यायः ॥ अथ महाविद्यादीनां भैरवनिरूपणं यथा, — शिव उवाच । “शृणु चार्व्वङ्गि शुभगे ! कालिकायाश्च भैरवम् । महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् ॥ महाकालेन वै सार्द्धं दक्षिणा रमते सदा । ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत ॥ समुद्रमथने देवि ! कालकूटं समुत्थितम् । सर्व्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः ॥ क्षोभादिरहितं यस्मात् पीतं हालाहलं विषम् अतएव महेशानि ! अक्षोभ्यः परिकीर्त्तितः ॥ तेन सार्द्धं महामाया तारिणी रमते सदा । महात्रिपुरसुन्दर्य्या दक्षिणे पूजयेत् शिवम् ॥ पञ्चवक्त्रं त्रिनेत्रञ्च प्रतिवक्त्रे सुरेश्वरि ! । तेन सार्द्धं महादेवी सदा कामकुतूहला ॥ अतएव महेशानि ! पच्चमीति प्रकीर्त्तिता । श्रीमद्भुवनसुन्दर्य्या दक्षिणे त्र्यम्बकं यजेत् ॥ स्वर्गे मर्त्ये च पाताले या चाद्या भुवनेश्वरी । एतया रमते तेन त्र्यम्बकस्तेन कथ्यते ॥ सशक्तिश्च समाख्यातः सर्व्वतन्त्रे प्रपूजितः । भैरव्या दक्षिणे भागे दक्षिणामूर्त्तिसंज्ञकम् ॥ पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि । छिन्नमस्तादक्षिणांशे कबन्धं पूजयेत् शिवम् ॥ कबन्धपूजनाद्देवि ! सर्व्वसिद्धीश्वरो भवेत् । धूमावती महाविद्या विधवारूपधारिणी ॥ वगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् । महारुद्रेति विख्यातं जगत्संहारकारकम् ॥ मातङ्गीदक्षिणांशे च मतङ्गं पूजयेत् शिवम् । तमेव दक्षिणामूर्त्तिं जगदानन्दकारकम् ॥ कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् । पूजयेत् परमेशानि ! स सिद्धो नात्र संशयः ॥ पूजयेदन्नपूर्णाया दक्षिणांशे च रूपकम् । महामोक्षप्रदं देवं दशवक्त्रं महेश्वरम् ॥ दुर्गाया दक्षिणे देशे नारदं परिपूजयेत् ॥ नकारः सृष्टिकर्त्ता च दकारः पालकः सदा । रेफः संहाररूपत्वान्नारदः परिकीर्त्तितः ॥ अन्यासु सर्व्वविद्यासु ऋषिर्यः परिकीर्त्तितः ॥ स एव तस्या भर्त्ता च दक्षभागे प्रपूजयेत् ॥” इति तोडलतन्त्रप्रथमपटले ॥ (भैरवबलिविषयः । यथा, कालिकापुराणे । पक्षिणः कच्छपाग्राहा मत्स्या नवविधा मृगाः । महिषा गोधिका गावश्छागो वभ्रुश्च शूकरः । खड्गश्च कृष्णसारश्च गोधिका शरभो हरिः । शार्द्दूलश्च नरश्चैव स्वगात्ररुधिरन्तथा ॥ चण्डिकाभैरवादीनां बलयः परिकीर्त्तिताः । बलिभिः साध्यते मुक्तिर्बलिभिः साध्यते दिवम् ॥)
अथ भैरवरागस्य विवरणम् । हनूमन्मते षड्- रागमध्ये प्रथमरागः । महादेवमुखान्निर्गतः । अस्य जातिः औडवः । अर्थात् धैवतनिषाद- षड्जगान्धारमध्यममिति पञ्चस्वरमिलितः । अस्य गृहं धैवतस्वरः । शरदृतौ प्रातःकालः अस्य गानसमयः । रागमालायाम् अस्या- कारः महादेवाकारवत् । अर्थात् सुन्दर- सन्न्यासी । भस्ममृक्षितवदनः । जटामस्तकः । जटापतद्गङ्गाजलः । कङ्कणभूषितहस्तः । लला- टार्द्धचन्द्रः । त्रिनेत्रः । सर्पवेष्टितस्कन्धबाहुः । भालतिलकः । स्कन्धस्थहस्तिचर्म्मा । अथवा द्वीपिचर्म्मोपविष्टः । गलमुण्डमालः । त्रिशूल- हस्तः । अथवा सम्मुखप्रोथितत्रिशूलः । पार्श्वस्थवृषश्च । अस्य रागिण्यः पञ्च । यथा । भैरवी वैराटी मघुमाधवी सिन्धवी वङ्गाली च । अस्याष्टौ पत्त्राः । यथा । हर्षः तिलकः पुरीयः माधवः सूहः बलनेहः मधुः पञ्चमश्च । कल्लिनाथमते तु भैरवश्चतुर्थरागः । अस्य रागिण्यः षट् । यथा । भैरवी गुज्जरी भाषा वेलावली कर्णाटी रगतंसा वडहंसीति च केचित् । एतन्मते पूर्ब्बवत् अष्टौ पुत्त्राः । किन्तु तिलकपुरीयपञ्चमसूहस्थानेषु देवशाखललित- मालकौशविलाबला लिखिताः । सोमेश्वर- मतेऽपि रागिण्यः षट् । यथा । भैरवी गुज्जरी रेवा गुणकली वङ्गाली बहुली च । तन्मते रागिण्या सहास्य गानसमयो ग्रीष्मर्त्तुः ॥ भरतमते तु अस्य रागिण्यः पञ्च यथा । मधु- माधवी ललिता वरारी वाहाकली भैरवी च । तन्मतेऽपि अस्याष्टौ पुत्त्राः । यथा देवशाखः ललितः हर्षः विलावलः माधवः वङ्गालः वेभासः पञ्चमश्च । एषामष्टौ भार्य्या यथा । सूहा वेलावली सोरठी कुम्भारी अन्दाही बहुलगुज्जरी पटमञ्जरी मिरवी च । इति सङ्गीत- शास्त्रम् ॥ * ॥
मतान्तरे भैरवरागस्य भार्य्या यथा । भैरवी वङ्गाली वरारी मध्यमा मधु- माधवी सिन्धवी च । तत्पुत्त्रा यथा । कोशकः अजयपालः श्यामः खरतापः शुद्धः ढोलश्च । तत्पुत्त्रबध्वो यथा । अष्टी रेवा बहुला सोहिनी रम्भेली सूहा च । अत्र शोभा इति साधुः पाठः । इति नारदपुराणम् ॥ (नागभेदः । यथा, महाभारते । १ । ५७ । १६ । “भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः ॥”)



Correction: