संस्कृत-शब्दकोशः

भैरव भैरवीचक्र

भैरवी

शब्दकल्पद्रुमः

भैरवी || स्त्री (भैरव + ङीप् ।)
चामुण्डा । यथा, “चामुण्डा चर्चिका चर्म्ममुण्डा मार्जारकर्णिका । कर्णमोटी महागन्धा भैरवी च कपालिनी ॥” इति हेमचन्द्रः । २ । १२० ॥ भैरवीविशेषा यथा । त्रिपुरभैरवी १ सम्पत्- प्रदा भैरवी २ कौलेशभैरवी ३ सकलसिद्धिदा भैरवी ४ भयविध्वंसिनी भैरवी ५ चैतन्यभैरवी ६ कामेश्वरी भैरवी ७ षट्कूटा भैरवी ८ नित्या भैरवी ९ रुद्रभैरवी १० भुवेनेश्वरी भैरवी ११ त्रिपुरबाला भैरवी १२ नवकूटा भैरवी १३ अन्नपूर्णा भैरवी १४ । आसां मन्त्रा यथा, — अथ त्रिपुरभैरवी । “वियद्भृगुहुताशस्थो भौतिको बिन्दुशेखरः । वियत्तदादिकेन्द्राग्निस्थितं वामाक्षिबिन्दुमत् ॥ आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् । पञ्चकूटात्मिका विद्या वेद्या त्रिपुरभैरवी ॥” १ ॥ अथ सम्पत्प्रदा भैरवी । यथासौ त्रिपुरा बाला तथा त्रिपूरभैरवी । सम्पत्प्रदा नाम तस्याः शृणु निर्म्मलमानसे ॥ शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् । कामराजं तथा देवि ! शिवचन्द्रान्वितं ततः ॥ पृथ्वीबीजान्तवह्न्याट्यं तार्त्तीयं शृणु वल्लभे ! । शक्तिबीजे महेशानि ! शिववह्नी नियोजयेत् ॥ कुमार्य्याः परमेशानि ! हित्वा सर्गन्तु बैन्दवम् । त्रिपुरा भैरवी देवी महासम्पत्प्रदा प्रिये ! ॥ २ ॥ अथ कौलेशभैरवी । सम्पत्प्रदाभैरवीवद्विद्धि कौलेशभैरवीम् । हसाद्या सैव देवेशि ! त्रिषु बीजेषु पार्ब्बति ! । इयन्तु सहराद्या स्यात् पूजाध्यानादिकं तथा ॥ ३ ॥ अथ सकलसिद्धिदा भैरवी । एतस्या एव विद्याया आद्यन्ते रेफवर्जिते । तदेयं परमेशानि ! नाम्ना सकलसिद्धिदा । सम्पत्प्रदाभैरवीवत् ध्यानपूजादिकं तथा ॥ ४ ॥ अथ भयविध्वंसिनी भैरवी । सम्पत्प्रदा भैरवी आद्यन्ते रेफरहिता चेत्तदा भयविध्वंसिनी भैरवी भवति । दक्षिणामूर्त्तौ तथादर्शनात् । पूजादिकन्तु सम्पत्प्रदावत् ॥ ५ ॥ अथ चैतन्यभैरवी । “वागभवं बीजमुच्चार्य्य जीवप्राणसमन्वितम् । सकला भुवनेशानी द्वितीयं बीजमुद्धृतम् ॥ जीवं प्राणं वह्निसंस्थं शक्रस्वरसमन्वितम् । विसर्गाढ्यंमहेशानि ! विद्या त्रैलोक्यमातृका ॥” ऋष्यादिन्यासः । शिरसि दक्षिणामूर्त्तये ऋषये नमः । मुखे पङ्क्तिच्छन्दसे नमः । हृदि चैतन्यभैरव्यै देवतायै नमः ॥ ६ ॥ अथ कामेश्वरी भैरवी । “कामेश्वरी च रुद्रार्णा पूर्ब्बसिंहासने स्थिता । एतस्या एव विद्याया बीजद्वयमुदाहृतम् ॥ तदन्ते परमेशानि ! नित्यक्लिन्ने मदद्रवे । एतस्या एव तार्त्तीयं रुद्रार्णा परमेश्वरि ! ॥ ७ ॥ अथ षट्कूटा भैरवी । डाकिनी राकिणी बीजे लाकिनी काकिनी- युगम् । शाकिनी हाकिनी बीजे आहृत्य सुरसुन्दरि ! ॥ आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् । शक्रस्वरान्वितं देवि ! तार्त्तीयं बीजमालिखेत् । बिन्दुनादकलाक्रान्तं त्रितयं शैलसम्भवे ! ॥ ८ ॥ अथ नित्या भैरवी । एतस्या एव विद्यायाः षड्वर्णान् क्रमशः स्थितान् । विपरीतान् वद प्रौढे ! विद्येयं भोगमोक्षदा । न्यासपूजादिकं सर्व्वमस्याः पूर्ब्बवदाचरेत् ॥ ९ ॥ अथ रुद्रभैरवी । शिवचन्द्रौ मादनान्तं फान्तं वह्निसमन्वितम् । शक्तिभिन्नं बिन्दुनादकलाढ्यं वाग्भवं प्रिये ! ॥ सम्पत्प्रदाया भैरव्याः कामराजं तदेव हि । सदाशिवस्य बीजन्तु महासिंहासनस्य च । एषा विद्या महेशानि ! वर्णितुंनैव शक्यते ॥ १० अथ भुवनेश्वरी भैरवी । हसाद्यं वाग्भवञ्चाद्यं हसकान्ते सुरेश्वरि ! । भूबीजं भुवनेशानी द्बितीयं बीजमुद्धृतम् । शिवचन्द्रौ महेशानि ! भुवनेशी च भैरवी ॥ ११ ॥ अथ त्रिपुरबाला भैरवी । अधरो बिन्दुनामाद्यं ब्रह्मेन्द्रस्थः शशी युतः । द्वितीयं भृगुसर्गाढ्यो मनुस्तार्त्तीयमीरितम् । एषा बालेति विख्याता त्रैलोक्यवशकारिणी ॥ १२ अथ नवकूटा बाला । बालाबीजत्रयं देवि ! कूटत्रयं नवाक्षरी । वियत्कूठत्रयं देवि ! भैरव्या नवकूठकम् ॥ १३ ॥ अयान्नपूर्णा भैरवी । प्रणवं भुवनेशानि ! श्रीबीजं कामबीजकम् । हृदन्ते भगवत्यन्ते माहेश्वरिपदं ततः । अन्नपूर्णे ठयुगलं विद्येयं विंशदक्षरी ॥ १४ ॥” इति तन्त्रसारे भैरवीमन्त्रपरिच्छेदः ॥ रागिणी- विशेषः । सा च भैरवरागस्य पत्नी । यथा, —
“भैरवी कौशिकी चैव भाषा वेलाबली तथा । वङ्गाली चेति रागिण्यो भैरवस्यैव वल्लभाः ॥” मतान्तरे मालवरागस्य पत्नी । यथा, — धानसी मालसी चैव रामकीरी च सिन्धुडा । आशावरी भैरवी च मालवस्य प्रिया इमाः ॥” अस्या ध्यानं यथा, —
“सरोवरस्था स्फटिकस्य मन्दिरे सरोरुहैः शङ्करमर्च्चयन्ती । तालप्रयोगप्रतिबद्धगीति- र्गौरीतनूर्नारद भैरवीयम् ॥” अस्या गानसमयः पूर्ब्बाह्णकालः । यथा, —
“विभाषा ललिता चैव कामोदी पठमञ्जरी । रामकीरी रामकेली वेलोयारी च गुज्जरी ॥ देशकारी च शुभगा पञ्चमी च गडा तुडी । भैरवी चाथ कौमारी रागिण्यो दश पञ्च च । एताः पूर्ब्बाह्णकाले तु गीयन्ते गायनोत्तमैः ॥” इति सङ्गीतदामोदरः ॥ * ॥
हनूमन्मते एषा सम्पूर्णजातिः । अस्याः सप्त- स्वरविन्यासक्रमः मध्यमपञ्चमधैवतनिषादषड्- जर्षभगान्धारान्तः । अस्या गृहं मध्यमस्वरः । शरदृतौ प्रभाते अस्या गानसमयः । राग- मालायां अस्याः स्वरूपम् । अल्पवयस्का । सुरूपा । सुनेत्रा । विस्तारवदना । पिङ्गल- केशा । कोमलाङ्गी । रक्तवर्णा । श्वेतवसना । गलशोभितचम्पकमाला । प्रफुल्लपद्मयुक्तपर्व्वत- गुहायां शिवपूजापरायणा । तत्र मञ्जीर- वादका गायन्ति च ॥ * ॥
कल्लिनाथसोमे- श्वरभरतमतेष्वेवम् ॥



Correction: