संस्कृत-शब्दकोशः

भामी भार

भाम्

भाम क्रोधे


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- भामयति–ते

अर्थ−
१. रिसाउनु, मुर्मुरिनु ।

कृदन्तरूपमाला

  • 1“भाम क्रोधे” 2 अदन्तः।
  • ‘भामेर्भामयति क्रोधे तत्रैव शपि भामते।।’ 3 इति देवः।
  • भामकः-मिका, बिभामयिषकः-षिका;
  • भामयिता-त्री, बिभामयिषिता- त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककालयतिवत् 4 ज्ञेयानि।
  • कर्तरि क्तप्रत्यये- 5 भामितः इति रूपम्।

प्रासङ्गिक्यः

  • ↑ (११५६)
  • ↑ (१०-चुरादिः-१८७३। अक। सेट्। उभ।)
  • ↑ (श्लो। १४९)
  • ↑ (१८५)
  • ↑ आ। ‘यो मत्क्षयं स्पृहयते मयि भामितेऽपि संसूचयत्यरिगुणांश्च मदन्नखेटी।’ धा। का। ३। ५५।


भाम क्रोधे


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- भामते

अर्थ−
१. रिसाउनु, मुर्मुरिनु ।

कृदन्तरूपमाला

  • 1“भाम क्रोधे” 2 ‘भामेर्भामयति क्रोधे तत्रैव शपि भामते।।’ 3 इति देवः।
  • भामकः-मिका, भामकः-मिका, विभामिषकः-षिका, बाभामकः-मिका;
  • भामिता-त्री, भामयिता-त्री, बिभामिषिता-त्री, बाभामिता-त्री;
  • 4 5 भामयन्-न्ती, भामयिष्यन्-न्ती-ती;
  • -- 6 देवदत्ताय भाममानः, -- बिभामिषमाणः, बाभाम्यमानः;
  • भामिष्यमाणः, -- बिभामिषिष्यमाणः, बाभामिष्यमाणः;
  • 7 भान्-भामौ-भामः;
  • -- -- -- भामितम्-तः, भामितः, बिभामिषितः, बाभामितः-तवान्;
  • भामः, 8 भामनः, भामः, बिभामिषुः, बाभाम;
  • भामितव्यम्, भामयितव्यम्, बिभामिषितव्यम्, बाभामितव्यम्;
  • भामनीयम्, भामनीयम्, बिभामिषणीयम्, बाभामनीयम्;
  • भाम्यम्, भाम्यम्, बिभामिष्यम्, बाभाम्यम्;
  • ईषद्भामः-दुर्भामः-सुभामः;
  • -- -- भाम्यमानः, भाम्यमानः, बिभामिष्यमाणः, बाभाम्यमानः;
  • भामः, 9 भामिनी 10, भामः;
  • बिभामिषः, बाभामः;
  • भामितुम्, भामयितुम्, बिभामिषितुम्, बाभामितुम्;
  • भामा, भामना, बिभामिषा, बाभामा;
  • भामनम्, भामनम्, बिभामिषणम्, बाभामनम्;
  • भामित्वा, भामयित्वा, बिभामिषित्वा, बाभामित्वा;
  • प्रभाम्य, प्रभाम्य, प्रबिभामिष्य, प्रबाभाम्य;
  • भामम् २, भामित्वा २, भामम् २, भामयित्वा २, बिभामिषम् २, बिभामिषित्वा २, बाभामम् २;
  • बाभामित्वा २। 11

प्रासङ्गिक्यः

  • ↑ (११५५)
  • ↑ (१-भ्वादिः-४४१। अक। सेट्। आत्म।)
  • ↑ (श्लो। १४९)
  • ↑ [पृष्ठम्०९४९+ २३]
  • ↑ १। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् परस्मैपदमेव।
  • ↑ २। ‘क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ (१-४-३७) इति देवदत्तस्य सम्प्रदानता।
  • ↑ ३। ‘मो नो धातोः’ (८-२-६४) इति पदान्ते नकारादेशो भवति। नत्वस्यासिद्धत्वात् नलोपो न।
  • ↑ ४। तच्छीलादिषु कर्तृषु ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच्।
  • ↑ ५। भामः = क्रोधः। सोऽस्याऽस्तीति भामिनी = स्त्री। मत्वर्थीय इनिप्रत्यये, ‘ऋन्नेभ्यः--’ (४-१-५) इति ङीपि रूपमेवम्।
  • ↑ आ। ‘पणाय्यरूपाः पनिताकृतीन्ययुः भामिन्य एवाक्षमया स्वकामुकान्।।’ धा। का। १। ५७।
  • ↑ [पृष्ठम्०९५०+ २५]



Correction: