वाचस्पत्यम्
भोग || स्त्री भुज—भावकर्मादौ घञ् । १ सुखे २ दुःखे ३ सुखदुः- खाद्यनुभवे ४ स्त्र्यादीनां भाटके ५ भाटकमात्रे च ६ सर्पदेहे ७ तत्फणायाञ्च अमरः । ८ धने ९ पालने १० भोजने च मेदि० ११ देहे १२ सर्पे १३ माने च शब्दरत्ना० १४ रव्यादीनां राशि- गतिकाले “अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः” तिथित० । १५ भूम्यादीनां फलभुक्तौ भुक्तिशब्दे दृश्यम् । १६ विभवभेदे “कर्त्ता च देही भोक्ता च आत्मा भोजयिता सदा । भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च” ब्रह्मवै० प्र० ख० २३ अ० ।
शब्दकल्पद्रुमः
भोगः || पुं, (भुज्यतेऽसौ इति । भुज + घञ् ।)
सुखम् । स्त्र्यादिभृतिः । पण्यस्त्रीणां भृति- र्भाडिः । आदिना हस्त्यश्वादिकर्म्मकराणाञ्च भृतिः । सर्पस्य फटा । सर्पशरीरम् । इत्यमर- भरतौ । ३ । ३ । २३ ॥ (यथा, रघौ । ११ । ५९ । “लक्ष्यते स्म तदनन्तरं रविः बद्धभीमपरिवेशमण्डलः । वैनतेयशमितस्य भोगिनः भोगवेष्टित इव च्युतो मणिः ॥”)
धनम् । (यथा, ऋग्वेदे । ३ । ३४ । ९ । “हिरण्ययमुतभोगं ससान हत्वी दस्यून् प्रार्य्यं वर्णमावत् ॥” “हिरण्ययं सुवर्णमयं भोगं धनम् ॥” इति तद्भाष्ये सायनः ॥)
गृहम् । (यथामुस्मिन्नेव मन्त्रे । “भोगशब्दव्याख्याने भुज्यतेऽस्मिन्निति भोगो गृहं वा ससान अर्थिभ्यो ददौ ।” इति सायनः ॥)
पालनम् । अभ्यवहारः । इति मेदिनी । गे, १६ ॥ सर्पः । देहः । मानम् । इति शब्दरत्नावली ॥ * ॥
पुण्यपापजननयोग्य- कालः । यथा, —
“अतीतानामतो भोगो नाड्यः पञ्चदश स्मृतः ॥” इति तिथ्यादितत्त्वे संक्रान्तिप्रकरणम् ॥ (पुरम् । यथा, ऋग्वेदे । ५ । २९ । ६ । “नव यदस्य नवतिञ्च भोगान् साकं वज्रेण मघवा विवृश्वत् ।” भोगान् पुराणि । इति तद्भाष्ये सायनः ।)
भूम्यादीनां भोगो यथा । त्रिपुरुषभोगमाह व्यासः । “प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तत् । तौ विना यस्य पित्रा च तस्य भागस्त्रिपौरुषः ॥ पिता पितामहो यस्य जीवेच्च प्रपतामहः । त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥ नारदः । तथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्त्रेण सोऽर्थः संशोध्यो न तं भोगो निवर्त्तयेत् ॥” इति व्यवहारतत्त्वम् ॥ विभवभेदः । यथा, —
“कर्त्ता च देही भोक्ता च आत्मा भोजयिता सदा । भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ (व्यूहभेदः । यथा, कामन्दकीयनीतिसारे । १९ । अध्याये । ४१ । ४८ । ५४ । श्लोकेषु ॥ “यदि स्याद्दण्डबाक्षुल्यं तदा चापः प्रकीर्त्तितः । मण्डलोऽसंहतो भोगो दण्डश्चेति मनीषिभिः ॥ गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा । भोगभेदाः समाख्यातास्तथा परिपतन्तकः ॥ असंहतास्तु षड्व्यूहा भोगव्यूहाश्च पञ्चधा ॥”)