वाचस्पत्यम्
भोगवती || स्त्री भोगः सर्पशरीरं भूम्नाऽस्त्यस्याम् मतुप् मस्य वः ङीप् । १ पातालगङ्गायाम् “भोगवती च पाताले स्वर्गे मन्दाकिनी तथा” इति पुराणम् । २ कुमारानुचरमातृ- भेदे भा० श० ४७ अ० । ३ नदीभेदे भा० व० । २ अ० । ४ भोगयुक्ते त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
भोगवती || स्त्री (भोगः सर्पशरीरं भूम्ना अस्त्यस्या मिति । भोग + मतुप् मस्य वः । “शार्ङ्गर- वाद्यञो ङीन् ।” ४ । १ । ७३ । इति ङीन् ।)
पातालगङ्गा । नागपुरी । इति मेदिनी । ते, २१४ ॥ (नागपत्नी । यथा महाभारते । १ । १७२ । ३२ । “नच भोगवतीं मन्ये न गन्धर्व्वीं न मानुषीम् ।” गङ्गा । यथा, च काशीखण्डे । २९ । १२८ ॥ “भव्या भोगवती भद्रा भवानी भूतभाविनी ।” तीर्थभेदः । यथा, महाभारते । ३ । ८५ । ७५ ॥ “तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः ।”)