वाचस्पत्यम्
भोग्य || न० भुज—ण्यत् कुत्वम् । १ धने २ धान्ये च । भोगमर्हति यत् । ३ भोगार्हे त्रि० । भोगार्हस्त्रियां ४ वेश्यायाञ्च स्त्री राजनि० । ५ आधिभेदे पु० यथाह नारदः “विश्रम्भहेतू द्वा- वत्र प्रतिभूराधिरेव च । अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः । कृतकालोपनेयश्च यावद्देयोद्यतस्तथा । स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च” ।
शब्दकल्पद्रुमः
भोग्यं || क्ली (भुज + ण्यत् ।)
धनम् । धान्यम् । इति राजनिर्घण्टः ॥ भोगमर्हतीति । भोग + यत् । भोगार्हेत्रि ॥ (यथा, कामन्दकीये । ५ । ८१ । “यथा रक्षेच्च निपुणं शस्यं कण्टकिशाखया । फलाय लगुडः कार्य्यस्तद्बद्भोग्यमिदं जगत् ।”)
आधिभेदः । यथाह नारदः । “विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च । अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ॥ कृतकालोपनेयश्च यावद्देयोद्यतस्तथा । स पुनर्द्विविधः प्रोप्यो गोप्यो भोग्यस्तथैव च ॥” गोप्यो रक्षणीयः । भोग्यस्यार्थः फलभोग्यपदे द्रष्टव्यः । तद्यथा, —
“काले कालकृतो नश्येत् फलभोग्यो न नश्यति ।” फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स न कदाचिदपि नश्यति । इति मिताक्षरायां व्यवहाराध्यायः ॥