वाचस्पत्यम्
भोज || पु० भुज—अच् । १ स्वनामख्याते देशभेदे स च दशः (भोजपुर) इति ख्यातः । २ धारापुरस्य नृपभेदे भोजप्रबन्ध भोजचरितादौ तद्वृत्तान्तो दृश्यः । “धन्थः श्रीभोजराजस्त्रिभुवनविजयी” उद्भटः । वसुदेवस्य शान्तिदेवागर्भजाते ३ पुत्रभेदे पु० हरिवं० ६६ अ० । ४ द्रुह्युनृपपुत्रभेदे भा० आ० ८३ अ० ।
शब्दकल्पद्रुमः
भोजः || पुं, (भोजस्येदमिति । भोज + “तस्ये- दम् ।” ४ । ३ । १२० । इत्यण् । अणो लोपः ।)
स्वनामख्यातदेशः । भोजपुर इति भाषा । तत्पर्य्यायः । भोजकटः २ । इति शब्द- रत्नावली ॥ धारानगरस्य राजविशेषः । तस्य वृत्तान्तो यथा । धारानामनगर्य्यां सिन्धुल- संज्ञो राजा आसीत् । तस्य राज्ञी सावित्री, तयोर्वृद्धावस्थायां भोजनामपुत्त्रो जातः । स यदा पञ्चवर्षवयस्कस्तदा तत्पिता आत्ममरणकालं विदित्वा भ्रात्रे मुञ्जाय राज्यं ददौ, तदुत्सङ्गे भोजञ्च मुमोच । ततो राज्ञि परलोकं प्राप्ते कियत्कालानन्तरं सभायां कश्चिदुदरम्भरिर्ज्योतिर्विदागत्य मुञ्जं प्राह राजन् ! भोजस्य भाग्योदयं वक्तुं विरिञ्चिरपि न समर्थः कोऽहं वराक उदरम्भरिर्ब्राह्मणः तथापि वदामि भोजमितः प्रेषय । ततो राजाज्ञया भोजेऽध्ययनशालां प्राप्ते आह यथा, —
“पञ्चाशत्पञ्चवर्षाणि सप्तमासा दिन त्रयम् । भोगराजेन भोक्तव्यं सगौडं दक्षिणापथम् ॥” इति श्रुत्वा मुञ्जराजोऽचिन्तयत्, यदि राज- लक्ष्मीर्भोजं गमिष्यति ततोऽहं जीवन्नपि मृतः । ततो राजा मन्त्रयित्वा वङ्गालाधीश्वरं महा- बलं वत्सराजमाहूय निर्जने तं प्राह, वत्स- राज ! त्वया भोजस्त्रिभुवनेश्वरीविपिने हन्तव्यः । वत्सराजः भोजकुमारोपाध्यायमाहूय प्राह, विप्र ! भोजमानय । ततो विदितवृत्तान्तो भोजः कुपितः प्राह, आः पाप ! राज्ञः कुमारं वहि- रानेतुं तव का शक्तिः, ततो वामचरणपादु- कामादाय भोजेन भालदेशे हतो वत्सराजः प्राह, भोजकुमार ! वयं राजादेशकारिणः । इत्युक्त्वा वधार्थं बलात् वत्सराजेन निशायां विपिनं भोजे नीते वत्सराजस्य भ्रात्रा भोजस्य वधोद्यमसमये । “एक एव सुहृद्धर्म्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्व्वमन्यच्च गच्छति ॥” इत्युक्तं निशम्य वत्सराजो वैराग्यमापन्नो भोजं क्षमस्वेत्युक्त्वा प्रणम्य तं रथे निवेश्य गृहमागत्य भूमिगृहान्तरे भोजं रक्षित्वा कृत्रिमं भोज- मस्तकं कारयित्वा राजानमागत्य नत्वा प्राह श्रीमता यदादिष्टं तन्मया कृतम् । राजपुत्त्रबधं ज्ञात्वा राजा तं प्राह वत्सराज ! पुत्त्रेण खड्गप्रहारावसरे किमपि उक्तम् । वत्सराजः प्राह देव ! किमपि पत्रं प्रेषितमस्ति तदिदं गृहाण शिरश्च दर्शयति । ततो भोजमस्तकं दृष्ट्वा राजा रुरोद । “मान्धातेति महीपतिः कृतयुगेऽलङ्कारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्या न्तकः । अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान् भूपते ! नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥” इति भोजकृतश्लोकं पठित्वा पपात च । ततो राजा पण्डितमानीय मया पुत्त्रो हतः प्रायश्चित्तमुच्यतामित्युवाच । ततस्ते ऊचुः राजन् ! सवासा वह्निमाविश । ततो राज्ञो वह्निप्रवेशे निश्चिते सति तद्वार्त्तां श्रुत्वा नृपद्वार- मागत्य वत्सराजो बुद्धिसागरं प्राह तात ! मया भोजो न मारितः वुद्धिसागरश्च तस्य कर्णे किमपि कथयति । ततो वत्सराजो निष्क्रान्तः । ततस्तन्मुहूर्त्तेन साक्षान्महेश्वर इव एकः कापालिक आगतः । तं वीक्ष्य बुद्धिसागरः प्राह योगिन् ! कुत आगम्यते कापालिके त्वयि जगच्चमत्कारी कलाविशेषश्चौषधिविशेषो वा अस्ति । ततो राजाप्याह मया सहसा हतं पुत्त्रं रक्ष । कापालिकः प्राह राजन् ! मा भैषीः पुत्त्रस्ते नाथप्रसादेन न मरिष्यति प्रातस्तव गृहं स्वयमेव समेष्यति परं श्मशानभूमौ बुद्धिसागर- मन्त्रिणा सह होमद्रव्यं प्रेषय । कापालिकेन यदुक्तं तत् सर्व्वं राज्ञा सम्पाद्य बुद्धिसागरः प्रेषितः ततश्च रात्रौ गूढतया वत्सराजगृहात् भोजस्तत्र नदीपुलिनं नीतः योगिना भोजकु- मारो जीवित इति किम्बदन्ती सर्ब्बतोऽप्य- जायत । ततः पौरामात्यैः परिवृतो भोजो राजभवनमागतः । ततस्तमालिङ्ग्य रुदन्तं मुञ्जं निवार्य्य भोजः स्तौति । ततो राजा लज्जावनतग्रीवः सन् निजसिंहासने भोजमुप- वेश्य राज्यं दत्त्वा वनं गतः । ततो मुञ्जे वनं प्राप्ते बुद्धिसागरं मुख्यामात्यं विधाय भोजः स्वयं राज्यसुखं बुभुजे । ततो राजसभायां सहस्रशो बुधवरा दिग्भ्य समागग्मुः ततो राजा अमात्यमाह । “लक्षं महाकवेर्द्देयं तदर्द्ध्वं विबुधस्य च । देयं ग्राम्यकवेर्वत्स ! तस्याप्यर्द्धं त्वयान्वहम् ॥” इति ॥ ततः क्रमेण वररुचिसुबन्धुबाणामररामदेवहरि- वंशशङ्करकलिङ्गकर्पूरविनायकमदनविद्याविनोद कोकिलतारेन्द्रप्रमुखाः सर्व्वशास्त्रविचक्षणाः सर्व्वज्ञा इव राजसभामहर्निशमलंकुर्व्वन्ति । कियत्कालानन्तरं कालिदासकवौ समागते तेन सार्द्ध्वं राज्ञः परमा प्रीतिरजायत । अन्ये विद्धांसः कालिदासं वेश्यालम्पटं विदित्वा सर्व्व- भावेन वैरञ्चक्रुः न कश्चित् सभायां स्पृशति न कोऽपि वदति । किन्तु भोजनृपतिस्तेन सार्द्धं परमप्रीतो बभूव । अन्येषां पण्डितानामाग- मनं तेषां पद्यानि समस्यापूरणानि तेभ्यो बहुलक्षमुद्रादानादिवर्णनञ्च ग्रन्थशेषपर्य्यन्त- मस्ति । तद्ग्रन्थविस्तरभयात् न लिखितम् । इति भोजप्रबन्धपुस्तकात् सङ्कलितम् ॥ * ॥
ऐन्द्र- जालिकविद्यां भोजविद्यां वदन्ति ॥