संस्कृत-शब्दकोशः

भौत भौती

भौतिक

वाचस्पत्यम्

भौतिक ||‍ त्रि० मूतानि पृथिव्यादीनि पिशाचान् वा अधिकृत्य जातानि ठक् । १ भूताधिकारेण जाते “आहङ्कारिकत्व- श्रुतेर्न भौतिकानि” सा० सू० । २ उपद्रवे व्याध्यादौ । ३ मुक्तायां राजनि० । ४ महादेवे पु० त्रिका० ।


शब्दकल्पद्रुमः

भौतिकं || क्ली (भूतानां विकार इति ठक् ।)
मुक्ता । इति राजनिर्घण्टः ॥ त्रि, भूतसम्बन्धि ॥ (भूतानि क्षित्यादीनि तद्विकारश्च गोघटवृक्षा- दयः । “आहङ्कारिकत्वश्रुतेर्न भौतिकानि ।” इति । २ । २० । सांख्यसूत्रम् ॥ सृष्टिविशेषश्च । तथाच । “ईश्वरकृष्णकृतसांख्यकारिकायाम् । अष्ट विकल्पो दैवस्तैर्य्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥ अत्र च सर्गे चैतन्योत्कर्षापकर्षविशेषात् तार- तम्यम् । यथा, तत्रैव । ऊर्द्धं सत्त्वविशालस्तमो- विशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्य्यन्तः ॥


शब्दकल्पद्रुमः

भौतिकः || पुं, महादेवः । इति त्रिकाण्डशेषः ॥ (उपद्रवः । व्याध्यादिः । चक्षुरादि । शरी- रादि ॥ (भूतेषु महदादिक्षित्यन्तेषु आत्मबुद्ध्या उपासकाः भौतिकाः । बौद्धविशेषाः । “भौतिकास्तु शतं पूर्णं सहस्रन्त्वाभिमानिकाः ॥” इति पातञ्जलयोगसूत्रव्यासभाष्यटीकायां वाच- स्पतिमिश्रधृतवचनम् । १ । १९ ॥)



Correction: