संस्कृत-शब्दकोशः

भ्रमर भ्रमरकीट

भ्रमरक

वाचस्पत्यम्

भ्रमरक ||‍ पु० भ्रमर इव कायति कै—क । ललाटलम्बिते भ्रमर- तुल्ये चूर्णकुन्तले अमरः । स्वार्थे क । भ्रमरक भ्रमरे वालमूषिकायाञ्च मेदि० । (तुरमीन) वेधनयन्त्रभेदे दशकुमा० । जलभ्रमणे विश्वः ।


शब्दकल्पद्रुमः

भ्रमरकः || पुं, (भ्रमर इवेति भ्रमर + “इवे प्रति- कृतौ ।” ५ । ३ । ९६ । इति कन् ।)
ललाट- लम्बितचूर्णकुन्तलः । इत्यमरः । २ । ६९६ ॥ (स्वार्थे कन् । भृङ्गः । बालमूषिकः । इति । मेदिनी । के, २०४ ॥ अम्बुभ्रमः । इति विश्वः ॥



Correction: