संस्कृत-शब्दकोशः

भ्रस्ज भ्राजक

भ्राज

वाचस्पत्यम्

भ्राज ||‍ दीप्तौ भ्वा० आत्म० अक० सेट् । भ्राजते अभ्राजिष्टं फणा० भ्रेजे बभ्राजे । चङि वा ह्रस्वः । द्वितं अथु भ्राजर्थुः ।


वाचस्पत्यम्

भ्राज ||‍ न० वर्षसाध्ये गवामयनसत्रे विषुवन्नामके प्रधानदिने गेये दिवाकीर्त्त्ये सामभेदे “दिवाकीर्त्त्य सामा भवति” इत्युपक्रमे तस्य दिवाकीर्त्त्यत्वं समर्थ्य “भ्राजा- भ्राजे पवमानमुखे भवतो मुखत एवास्य ताभ्यां तमो- ऽपघ्नन्ति” ता० ब्रा० ४ । ६ । १४ । “यद्यप्यत्र पवमानमुख इति सामान्यसम्बन्ध एव दृश्यते ये गायत्रे ते गायत्री- षूत्तरयोः पवमानयोरिति विशेषावगतेरेवं व्याख्यातं स्पष्टमन्यत् । अनेन भ्राजाभ्राजयोः साम्नोः स्थान- नियमोऽर्थादुक्तो भवति” भा० तच्च स म “परिस्वानो गि- रिष्ट” इत्यस्मिन् गेयम् तच्च ऊहगाने ३ प्र० १२ ।


शब्दकल्पद्रुमः

भ्राज || ङ ण ऋ टु भासि । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट्, ।)
रेफयुक्तः । ङ भ्राजते ण भ्रेजे बभ्राजे । अनुबन्धबलात् संयो- गादित्वेऽप्याकारस्याप्येत्वम् ॥ ऋ अबिभ्रजत् अवभ्राजत् । टु भ्राजथुः । इति दुर्गा- दासः ॥



Correction: