वाचस्पत्यम्
भ्रामर || न० भ्रमरेण संभृतं सम्पादितम् अस्येदं वा अण् । १ मधुनि । २ भ्रमरसम्यन्धिनि त्रि० ३ अयस्कान्ते पु० मेदि० । “तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट् पदम्” इत्युप- क्रम्य “भ्रामरीति च मां लोकाः” इति देवीमा० उक्ते ४ चण्डीमूर्त्तिभेदे स्त्री । भ्रामरमधुगुणादि “किञ्चित् सृक्ष्मैः प्रसिद्धेभ्यः पुष्पेभ्योऽलिभिश्चितम् । निर्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् । भ्रामरं रक्तपित्तघ्नं मूत्र- जाड्यकरं गुरु । स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं हिमम्” भावप्र० उक्तम् । ५ अपस्माररोगे शब्दमाला ।
शब्दकल्पद्रुमः
भ्रामरं || क्ली (भ्रमरैः कृतं सम्भृतमिति । भ्रमर + “क्षुद्राभ्रमरवटरपादपादञ् ।” ४ । ३ । ११९ । इति अञ् ।)
मधु । इति मेदिनी । रे, १९१ ॥ तत्तु भ्रमरजमधु । तस्य गुणाः । पिच्छलत्वम् । रूक्षत्वम् । मधुरत्वम् । मुखजाड्यनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । पैच्छिल्यात् स्वादु भूयस्त्वात् भ्रामरं गुरु कीर्त्तितम् ।” इति राजवल्लभः । अन्यच्च । “किञ्चित् सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्यीऽलिभि- श्चितम् । निर्म्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् ॥ भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु । स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं हिमम् ॥” इति भावप्रकाशः ॥ नृत्यविशेषः । तत्पर्य्यायः । रासः २ मण्डल- नृत्यम् ३ हल्लीसम् ४ । इति शब्दमाला ॥ भ्रमरसम्बन्धिनि त्रि । यथा, —
“तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् ।” इति देवीमाहात्म्यम् ॥ (यथा च हारीते प्रथमे स्थाने एकादशेऽध्याये । मध्वर्थे लक्षणं गुणाश्च । “शीतं कषायं मधुरं लघु स्यात् सन्दीपनं लेखनमेव शस्तम् । संशोधनन्तु व्रणशोधबञ्च संरोपणं हृद्यतमञ्च बल्यम् ॥ त्रिदोषनाशं कुरुते च पुष्टिं कासे क्षये वा क्षतजे च छर्द्दौ । हिक्काभ्रमे शोषसपीनसानां रक्तप्रमेहे च तथातिसारे ॥ रक्तातिसारे च सरक्तपित्ते तृण्मोहहृत् पार्श्वगदेऽपि शस्तम् । नेत्रामये वा ग्रहणीगदे वा विषे प्रशस्तं भ्रमरैश्चितं यत् ॥” भ्रामरं सघनं जाड्यं भूयिष्ठं मधुरञ्च यत् । रूक्षं विशेषतो ज्ञेयं शीतलं लघुलेखनम् ॥”)
शब्दकल्पद्रुमः
भ्रामरः || पुं, (भ्रामयति लौहमिति । भ्रामि + “अर्त्तिकमिभ्रमिदेवीति ।” उणा० ३ । १३२ । इति अरः । बाहुलकात् दीर्घश्च ।)
प्रस्तरभेदः । मेदिनी । रे, १९१ ॥ चुम्बक पातर इति भाषा ॥ (अपस्माररोगः । इनि भ्रामरी त्रि । यथा, मनौ । ३ । १६१ । “भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ॥” “भ्रामरी अपस्मारी ।” इति तद्भाष्ये मेधा- तिथिः ॥)