शब्दकल्पद्रुमः
भ्रामरी || स्त्री (भ्रमरस्यायं भ्रामरो भ्रमरवद्- वर्णः । सोऽस्या अस्तीति । अर्श आद्यत्त । ङाप् ।)
पार्व्वती । इति त्रिकाण्डशेषः ॥ यथा, मार्कण्डेये । ९१ । ४७-४९ । “यदारुणाक्षस्त्रैलोक्ये महाबाधां करिष्यति । तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् ॥ त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् । भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्व्वतः ॥”