भ्रु
भ्रुकुंस
भ्रुकुटि
शब्दकल्पद्रुमः
भ्रुकुटिः || स्त्री (भ्रुवः कुटि कौटिल्यमिति षष्टी- समासः । अभ्रुकुं सादीनामिति वा ह्रस्वः ।)
क्रोधादिना भ्रुवः कौटिल्यम् । इत्यमरः । १ । ७ । ३७ ॥ (यथा, महाभारते । ७ । ७६२ । बद्ध्वा च भ्रुकुटिं वक्त्रे क्रोधस्य परिलक्षणम् ॥”)