शब्दकल्पद्रुमः
भ्रुकुंसः || पुं, (भ्रकुंसः । भ्रुकुंसः । भ्रूकुंसः । भृकुंसः । इति रूपचतुष्टयम् । “चुरादौ पठपुटेत्यादि- दण्डके कुसिर्भाषार्थः । यः स्त्रीवेशं धारयित्वा भ्रुवः कुंसयतीति । एरच् प्रत्ययः । ह्रस्वश्च वा । इति अमरटीकायां रघुनाथचक्रवर्त्ती ॥)
स्त्रीवेशधारिनर्त्तकपुरुषः । इत्यमरः । १ । ७ । ११ ॥