संस्कृत-शब्दकोशः

भ्रूक्षेप भ्रूणघ्न

भ्रूण

वाचस्पत्यम्

भ्रूण ||‍ आशायां विशङ्कायाञ्च चु० आत्म० सक० सेट् । भ्रूणयते अयुभ्रुणत


वाचस्पत्यम्

भ्रूण ||‍ पु० भ्रूण—घञ् । स्त्रीणां १ गर्भे २ वासके च अमरः ।


शब्दकल्पद्रुमः

भ्रूण || क ङ आशाविशङ्कयोः । इति कविकल्प- द्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।)
रेफ- युक्तषष्ठस्वरी । क ङ भ्रूणयते भद्रं लोकः । आशाविषयं करोतीत्यर्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

भ्रूणः || पुं, (भ्रूण्यते आशस्यते इति । भ्रूण + घञ् ।)
बालकः । स्त्रीगर्भः । इत्यमरः २ । ६ । ३९ ॥ (क्लीवमपि । यथा, ऋग्वेदे । १० । १५५ । २ । “चत्तो इतश्चत्तामुतः सर्व्वाभ्रूणान्यारुषी ॥”)
अथ गर्भाधानदिनम् । रजोदर्शनावधिषोडश- दिनपर्य्यन्तं ऋतुकालः । तत्राद्याश्चतस्रो निशाः परित्यज्य चतुर्द्दश्यष्टमी अमावास्या पूर्णिमा सूर्य्यसंक्रान्तिः पर्व्वाण्येतानि परित्यज्य च अन्यासुरात्रिपु चन्द्रादिशोभने काले भार्य्यामुप- गच्छेत् । युग्मरात्रिषु गमने पुत्त्रो भवेत् । अयुग्म- रात्रिषुगमने कन्या भवेत् । तत्र प्रशस्तनक्षत्राणि पुष्यः हस्ता मृगशिरा आर्द्रा पुनर्व्वसुः पूर्ब्बा- षाढा उत्तराषाढा श्रवणा पूर्ब्बभाद्रपदुत्तर- भाद्रपत् । तत्र निषिद्धनक्षत्राणि । ज्येष्ठाश्लेषा मघा मूला रेवती कृत्तिकाश्विनी उत्तरफल्- गुनी । तत्र तिथयः नन्दा भद्राः प्रशस्ताः । रिक्ता निषिद्धाः । तत्र रविमङ्गलबृहस्पतिवाराः प्रशस्ताः । इति समयप्रदीपः ॥



Correction: